________________
अर्हम् अथ पञ्चमः सर्गः ।
सिंहजीवोऽथ दुःखानि तिर्यग्योनिभवानि सः। सहन् कापि सन्निवेशे रोरद्विजसुतोऽभवत् ॥ १ ॥ जातस्यैव मृतास्तस्य पितृ मात्रा-ऽऽदिबान्धवाः। ततोऽसौ जीवितो लोकै रङ्कोऽयमिति सद्दयैः ॥ २ ॥ कठ इत्याहिताऽऽह्वानः क्रमेण प्राप्तयौवनः। भोजनं कथमप्याप स भ्रमन् प्रतिमन्दिरम् ॥ ३॥ अतिदुःस्थतया चैष दुनिरीक्ष्यो नृणामभूत् । ग्रस्तो दारिद्यभूतेन कस्य न स्याद् भयास्पदम् ? ॥ ४ ॥ सोऽन्येचुरीश्वरान् रत्नस्वर्णालङ्कारभूषितान् । दृष्ट्वा सद्यः समुत्पन्नाद् वैराग्यादित्यचिन्तयत् ॥ ५ ॥ दृश्यन्तेऽमी सहस्राणामुदरंभरयोऽत्र यत् । देववद् दिव्यनेपथ्यास्तत् प्राच्यतपसः फलम् ॥६॥ अहं स्त्रोदरपूरेऽपि भैक्षणाप्यक्षमस्तु यत् । तन्नूनं न तपोऽकार्ष तपस्याम्यधुनाऽपि तत् ॥ ७॥ इति ध्यात्वा कठः खेदाज्जगृहे तापसव्रतम् । . तपस्तेपे च पञ्चाग्न्यादिकं कन्दफलाशनः ।। ८॥ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रेऽस्मिन् भरताऽभिधे । उपकण्ठस्थगङ्गौघहारा वाराणसी पुरी ।। ९ ।। परिखाजलमध्यस्थप्राकारकपिशीर्षकैः । दलैरिव विराजन्ती चैत्यकिञ्जल्कशालिनी ॥ १० ॥ इक्ष्वाकुकुलभूपालप्रतापरवितेजसा । या विकाशवती धत्ते पमिनीव श्रियं सदा ॥ ११ ॥
(युग्मम् )