________________
श्री पार्श्वनाथचरिते
निर्गत्य च सेनान्या द्वितीयं गाङ्गनिष्कुटम् । जिगाय जगृहे गङ्गामुखस्थांश्च निधीन्नव ।। ११५ ॥ . जित्वैवं स्वर्णबाहुस्तदखण्डं क्षोणिमण्डलम् । नीत्या चक्रानुगची व्यावृत्यागानिजं पुरम् ॥ ११६ ॥ चक्रेऽस्य मुदितैर्भूप- सुरैरुत्सवनिर्भरम् । तीर्थाम्भोभिर्महाराज्याभिषेको द्वादशाब्दिकः ॥ ११७ ॥ चतुःषष्टिसहस्राणि राज्ञ्योऽतिरतयोऽभवन् । द्वात्रिंशच्च सहस्राणि राजानस्तस्य सेवकाः ॥ ११८ ॥ लक्षाचतुरशीतिश्च हस्तिनो वाजिनो रथाः ग्रामाः षण्णवतिः कोव्यः पूः सहस्रद्विसप्ततिः ।। ११९ ।। इत्थं श्रितः समग्राभिचक्रवर्तिविभूतिभिः ।
स चिरं पालयामास विजयी विजयावनिम् ।। १२० ॥ निजभाग्य इवोत्तु प्रासादे स स्थितोऽन्यदा । यातायातकृतो देवान् विस्मितोऽपश्यदम्बरे ॥ १२१ ॥ अश्रौषीच्च जगन्नाथं तीर्थङ्करमुपागतम् । श्वेतपक्षाऽऽगमेऽम्भोधिरिवोल्लासं भृशं दधौ ॥ १२२ ॥ स देशः सजनः श्लाघ्यो वासरः स च स क्षणः । सतृषां यत्र नः स्वामी सुधाकुम्भ इवाययौ ॥ १२३ ॥ अदृश्यदर्शनोद्भूतं मलं मेऽद्य दृशोर्जिनम् ।
दृष्ट्वा यास्यति तस्याङ्गलावण्यजलनिर्भरैः ।। १२४ ॥ तथाऽष्टाङ्गप्रणामेन सर्वाङ्गाऽऽरम्भसंभवम् । जिनेन्द्रचरणस्पृष्टभुवः स्पर्शेन नेक्ष्यति ॥ १२५ ॥ अश्रव्यश्रवणाज्जातं दोषं श्रवणयोर्मम ।
तदन्तः प्रविशज्जैनवाक्पूरः लावविष्यति ।। १२६ ॥ इति ध्यायन्नराधीशो जिनेन्द्रं वन्दितुं ययौ । शिरः पुण्यमिवाssधातुं नीचैश्चक्रे जिनेक्षणात् ॥ १२७ ॥
१ रतिमतिक्रान्तवत्यः । २ मलमिति शेषः ।
२५०