________________
२४६
श्रीपार्श्वनाथचरितेपद्माऽथ नन्दया निन्ये ततः स्थानात् कथञ्चन ।। पश्यन्ती वलितग्रीवं स्वर्णबाहुं महीपतिम् ॥६३॥ नन्दया कथिते स्वर्णवाहुराजाऽऽगमे मुदा । ऊचे कुलपति नमुनेर्ज्ञानं महाद्भुतम् ॥ ६४ ॥ ममाऽतिथिरयं तावद् वर्णाश्रमगुरुस्तथा । . पद्मायाश्च वरो भावी तत् पूज्यः सर्वथा नृपः ॥६५॥ ततो रत्नावली-पद्मा नन्दाभिः सहितो ययौ । गालवो भूभुजः पाः राज्ञा चोत्थाय सत्कृतः ॥६६॥ बभाषे चाऽहमेवैष्यं किं यूयं स्वयमागता ? | स प्राह किं न नः पूज्यो. वर्णाश्रमगुरुर्भवान् ? ॥६७।। मज्जामेयी च पद्माऽसौ पत्नी ते ज्ञानिनोदिता। अस्याः पुण्यैस्त्वमायासीस्तदिमामुद्वहाऽधुना ॥६८॥ इत्युक्तो मुनिना तेन पनां पद्मामिवाऽपराम् । गान्धर्वेण विवाहेन परिणिन्ये स भूपतिः ॥६९।। तदा पद्मोत्तरो भ्राता पद्मायाः परमातृजः। . समाभृतः खेचरेशो विमानश्छादयनभः ॥७॥ तं प्रदेशमुपेयाय रत्नावल्या निवेदितः । स्वर्णबाहुं नमस्कृत्य जगादैवं कृताञ्जलिः ॥७१॥ (युग्मम् ) त्ववृत्तान्तमिमं ज्ञात्वा देव ! त्वामेव सेवितुम् । इहाऽगच्छं नराधीश ! तदादेशं प्रयच्छ मे ।। ७२ ॥ वैताढ्यादौ प्रतापाढ्य ! समागच्छ च मे पुरे । तत्र विद्याधरैश्वर्यलक्ष्मीरुत्कण्ठिताऽस्ति ते ।। ७३ ।। । राजाऽपि तद्वचस्तस्योपराधादन्वमन्यत । । स मेऽस्तु विषमेऽप्यर्थे सन्तः प्रणयिवत्सलाः ॥ ७४ । अपृच्छद् गालवं रत्नावली च विनतो नृपः। ... पद्मोत्तरोपनीतं च विमानमधिरूढवान् ॥ ७५ ।। १ इंण्क् गतौ ।