________________
२४४
श्रीपार्श्वनाथचरितेदृढबद्धं श्लथीकृत्य वल्कलं तत्र बालिका। . बकुलं सेक्तुमारेभे बकुलामोदभृन्मुखी ॥ ३७॥ भूयोऽप्यचिन्तयद् राजाऽमुष्याः कमलचक्षुषः । केदं रूपं क कर्मेदं प्राकृतस्त्रीजनोचितम् ? ॥ ३८ ॥ न च तापसकन्येयं यदस्यां रागि मे मनः । काऽपि भूपालपुत्रीयं कुतोऽप्यत्रागता ध्रुवम् ॥ ३९ ॥ अत्रान्तरे मुखे तस्याः पद्मभ्रान्त्या मधुव्रतः । पपात जनयंत्रासं धुन्वत्याः पाणिपल्लवौ ।। ४० ॥ कथञ्चिन्नाऽपयात्यस्मिन् सखीमुद्दिश्य साऽवदत् । वैरिणो भ्रमरादस्माद् रक्ष रक्ष सहायिनि ! ॥४१॥ सख्यूचे रक्षितुं कोऽन्यः क्षमस्त्वां स्वर्णवाहुतः । लीलयाऽवति यः पृथ्वीं तमेवाऽनुसर प्रभुम् ॥ ४२ ॥ को नाम त्वामुपद्रोता पौत्युवीं वज्रबाहुजे । इति ब्रुवस्तदा दक्षः प्रकटोऽभूत् तयोर्नृपः ॥ ४३ ॥ पुरस्तं वीक्ष्य सहसा संभ्रान्ते ते बभूवतुः । नोचितं चक्रतुः किश्चिन्न च किश्चिद् जजल्पतुः ॥४४॥ भीते इव नृपो जानंस्ते भूयोऽपि ह्यभाषत । निष्प्रत्यूहं तपो भद्रे ! कचिनिर्वहतीह वॉम् ॥ ४५ ॥ धैर्यमालम्ब्य सख्यूचे स्वर्णवाही महीपतौ । तापसानां तपोविघ्नमत्र कः कर्तुमीश्वरः १ ॥ ४६ ।। अधुना किन्त्वियं वाला पद्मभ्रान्त्या मुखेलिना । दश्यमाना कातराक्षी रक्ष रक्षेत्यभाषत ॥ ४७ ॥ तरुमूले तया दत्तासने राजा निवेश्य च । आपृच्छयत स्वच्छधिया गिरा पीयूषकल्पया ॥ ४८ ॥ लक्ष्यसे त्वमसामान्यो मूोऽपि निरवद्यया । तथाऽप्याख्याहि कोसि त्वं देवो विद्याधरोऽथवा?॥४९॥ १ भ्रमरः। २ सप्तम्यन्तम् । ३ युवयोः ।