SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २३४ श्रीपार्श्वनाथचरिते दिव्यशक्तिः श्रियां पात्रं सदाऽऽनन्दमयो भव ॥ १०२७॥ . प्रभावमिति तो तत्र न्यस्य स्वास्पदमीयतुः । इन्द्रोऽपि परमां प्रीतिमवाप ससुरासुरः ॥ १०२८ ॥ राजाऽथ श्रीहरिश्चन्द्रस्तत्प्रभृति विशेषतः । दयालुर्जगदानन्दस्त्यक्तव्यसनकौतुकः ॥ १०२९ ॥ शक्रावतारतीर्थस्य सर्वज्ञस्य कृपानिधेः । श्रीकृषध्वजदेवस्य पर्युपास्तिपरायणः ॥१०३०॥ दिव्यशक्तिप्रभावेण गगनक्रीडनादिकम् । महर्द्धि दर्शयन् लोके पालयामास काश्यपीम् ॥ १०३१ ॥ (त्रिभिर्विशेषकम् ) विनयादिगुणा लोकेऽप्येवमद्भुतसिद्धये । लोकोत्तरे नु ते धर्मे न कथं मोक्षसिद्धये ? ॥ १०३२ ॥ जिनधर्मरथारूढैरतो मुक्ति यियासुभिः । विनयादिगुणा योज्याश्चत्वारोऽपि हया इव ॥१०३३ ॥ गुरुणा लौकिकैरेवं कृतो धर्मगुणास्तिकः । कुबेरः श्रद्धया नत्वाऽपृच्छल्लोकोत्तरान् गुणान् ॥१०३४ ॥ गुरुरप्याह भो भद्र ! त एव विनयादयः । स्युः सर्वज्ञोक्तमार्गेण नीता लोकोत्तरा गुणाः॥१०३५ ॥ तथाहि-. विनयः सुव्रताचारे गुरौ सद्धर्मदेशके । शुश्रुषा प्रणतिश्चाज्ञामाननं मृदुभाषणम् ॥ १०३६ ॥ विवेको देवपूजादौ मनो-वाक्-कायशोधनम् । सुसङ्गस्त्वेष यो धमित्रेण सह सङ्गमः ॥ १०३७ ॥ सुसत्त्वं च जिनाख्याततत्त्वश्रद्धाननिश्चयः । लोकोत्तरगुणैरेवं भवेल्लोकोत्तरं सुखम् ॥ १०३८ ॥ १ यातुमिच्छुभिः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy