SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ... तृतीयः सर्गः। २३१ सुतारां पुत्रवृत्तान्तमप्राक्षीत् साऽप्यचीकथत् ।। ९८८ । अद्याऽयं प्रातरेवाऽगाः समित्-पुष्पकृते वने । . विप्रेण प्रेषितो मन्दभाग्यो दष्टोऽहिना प्रिय ! ॥९८९॥ विनाऽऽत्मीयान्न कोऽप्यस्य विषस्योत्तारणं व्यधात् । विना वन्धुं जगच्छून्यं जीवो धर्म विना यथा ॥ ९९० ॥ हरिश्चन्द्रस्ततो दध्यौ धिग् मां व्यसनपातिनम् । एकत्र श्वपचः क्रुद्धोऽन्यत्र पुत्रव्ययक्लमः ।। ९९१ ॥ प्रवासोरिपुरीवासो नीचदास्यं सुतव्ययम् । हरिश्चन्द्रोऽखिलं सोढा देवी त्वेकसुता हता ॥ ९९२ ॥ किश्च मे वेक्ष्यतो हस्तौ पुत्रवस्त्राहृतौ कथम् ? । स्वाम्यादेशमकर्तुं च नैवौजस्वि मनो मम ॥ ९९३ ॥ अथवा पुत्रमृत्यौ को मे विचारो यदस्म्यहम् । श्वपचाधीनदेहस्तत् स यद् ब्रूते करोमि तत् ॥ ९९४ ॥ अन्यथा स्यां प्रतिज्ञातभ्रष्टः सत्त्वकलङ्कितः । सत्त्वैकतानवृत्तीनां नाऽपत्याद्यानुरागिता ॥ ९९५ ॥ व्यापन्नस्य सुतस्याऽस्य न गृह्णाम्यम्बरं यदि । निर्वाहयामि नो सन्धां लज्जते तरणिस्तदा ॥ ९९६ ॥ इति सत्त्वानिलोडूताऽपत्यबन्धः स सात्त्विकः । भूत्वा पराङ्मुखोऽशक्तो याचितुं स्फुटया गिरा ।। ९९७ ॥ अर्पयाऽऽच्छादनमिति संज्ञया प्रतिपादयन् । . हस्तं प्रसारयामास हरिश्चन्द्रः प्रियां प्रति ॥ ९९८ ॥ सुताराऽपि च तदभिप्रायं स्फुटमजानती। उच्चिक्षेप करे दातुं रोहिताश्वं मुहुर्मुहुः ॥ ९९९ ॥ अगृह्णति हरिश्चन्द्रे पुत्रं साऽऽह ब्रवीषि किम् ? । न जानामि तवैतां हि संज्ञां ब्रूहि ततः स्फुटम् ॥१०००॥ धैर्यसंदंशकाकृष्टवचनः सात्त्विकोऽवदत् । १ आकर्षणसाधनम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy