________________
२२८
श्रीपार्श्वनाथचरितेसर्वैः स नाश्यमानोऽपि प्रत्युताऽऽगात् समीपगः । जजागार ततश्चाऽऽरादाश्रमे तापसः क्षणात् ।।९४९।। किञ्चित् किश्चित् ततो विद्यामुखं नीचैर्ममज्ज च । खेचर्युवाचाऽपर्याप्तहोमा हा ! हा ! हतास्म्यहम् ॥९५०॥ सावष्टम्भं हरिः प्राह मा विषाद गृहाण मे । छित्त्वा शिरोऽपि पर्यन्ताहुतिहोमं समापय ॥९५१॥ ऊचे विद्याधरी होमः क्रमात् स्यान्ननु नाऽक्रमात् । क्रमं च क्षमते नैष तापसः क्रोधमावहन् ।।९५२।। अरे ! किमिदमारब्धमस्मदाश्रमभूमिषु । इत्याक्रोशन् विवेशोचैरुद्धतस्तत्र तापसः ॥ ९५३ ॥ ममज्ज तन्मुखं देव्या मध्येकुण्डानि सत्वरम् । भीता विद्याधरी साऽथ काऽप्यगात् सपरिच्छदा।।९५४॥ ततः क्रोधात् परिभ्राम्यन् तापसस्तत्र जग्मिवान् । यत्राऽऽस्ते कृत्तसाङ्गः शाखाबद्धो हरिः श्वसन् ॥ ९५५॥ क्षणेन तापसः किञ्चिदुपलक्ष्याऽऽह विस्मयात् । अरे ! भवान् हरिश्चन्द्रः सोऽप्याख्यदोमिति स्फुटम् ।।९५६॥ तमाह तापसः क्रुद्धः स्वर्ण कुलपतरदाः ? । नृपः प्राह दिनैः कैश्चित् प्रभो ! पूर्णीभविष्यति ॥९५७।। उपलक्षयास त्वं मे प्रोक्तस्तेन नृपोऽवदत् । कौटिल्यस्त्वं महीदाने साक्षी कुलपतेरसि ।। ९५८ ॥ अरे ! कुलपतेः स्वर्णमनापूर्येति किं त्वया । आरब्धमित्यूचानेऽस्मिन् राड् हियाऽधोमुखोऽभवत् ९५९॥ ततो मा भून्मुनेः स्वर्णहानिरस्मिन् मृते त्विति । औषध्या व्रणरोहिण्या स्वेनालिम्पत् स तद्वपुः ॥९६०॥ अभूच तत्क्षणादेवाऽऽरूढवणवपुर्नृपः । ययौ च तापसः स्थाने खे दथ्यौ हरिरप्यथ ॥९६१॥ १ आकोशान् ददावु-।