SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेसैष व्याघ्रतटिन्यायः किं करोमि द्वयाश्रयः ॥ १३३ ॥ उच्चैरारोहतां किं वा ममाऽऽज्ञाभङ्गदूषणम् । सर्वतः प्रसरनेपोऽवर्णवादस्तु दुस्तरः ॥ १३४ ॥ इति कृत्वा तथैवाऽसौ दातुं प्रववृते पुनः । उष्णीकृतमपि स्वीयं शैत्यं याति यतः पयः ॥ १३५ ॥ तद् ज्ञात्वा कुपितः कामं कुमारस्य नराधिपः । द्वारं निवारयामास सेवाहेवाकिनोऽपि हि ॥ १३६ ।। अथाऽसावऽपमानेन बाढमापूरितो हृदि । नदीपुर इवाऽऽवत्तबद्धरुद्धगतिर्गतः ।। १३७ ॥ अहो ! मे व्यसनं नैव तावद् द्यूतादि किश्चन । नैव राज्यस्पृहा नैवाऽविनयः कोऽपि नाऽनयः ॥ १३८ ॥ जन्तुप्रीतिकरं दानं यदेवं दोषतां गतम् । तदत्र युज्यते नैव मम स्थातुमतः परम् ।। १३९ ।। व्याधि-मालिन्य-दारिया-ऽपमान-व्यसनाऽऽगमैः । परदेश विना नाऽन्यदिह श्रेयो मनस्विनाम् ॥ १४० ॥ इति निश्चित्य निगूढं कुमारो निशि निर्जने । बरं तुरङ्गमारुह्य चचालैका दिशं प्रति ॥ १४१ ॥ इङ्गितज्ञस्तु तद् ज्ञात्वा निजदौर्जन्यदोषतः । तत्र स्थातुमशक्तः सन् सज्जनोऽपि तमन्वगात् ॥ १४२ ॥ आत्मवत् कर्मणा तेनाऽनुगतः श्रितवत्सलः । कुमारः प्राह भो भृत्य ! वद किंचिद् विनोदकृत् ।। १४३ ॥ तेनोचे देव ! कि श्रेष्ठं कथ्यतां पुण्य-पापयोः । सोऽप्यवादीदरे ! मूर्ख ! किमिदं गदितं त्वया ॥ १४४ ॥ अबला-बाल-गोपाल-हालिकानामपि स्फुटम् । इदं हि यद् जयो धर्मादधर्मेण पुनः क्षयः ॥ १४५॥ देव ! सत्यमई मूर्खः परं कथय कीदृशौ । धर्माऽधौ, कुमारेण भणितं शृणु सजन !? ॥ १४६ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy