SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथचरिते अन्यान्यप्यस्य कार्याणि दुष्कराण्यपि सोऽकरोत् ||४५४॥ लोभनन्देरपि स्वामी तथा तेनानुकूलितः । यथा निःस्वोऽप्यसौ जज्ञे महर्द्धिभरभासुरः ॥ ४५५ ।। अथ सिंहस्य पुत्रादप्यधिकोऽस्ति मयूरकः । उत्सङ्गलालितो नित्यं पोषितो भूषितश्च यः ॥ ४५६ ॥ अभूत् तस्यामिषे तस्या दास्या गर्भानुभावतः । दोहदस्तेन सोऽपूरि तत्तुल्याऽन्यमयूरतः ।। ४५७ । ठक्कुरस्य मयूरस्तु कापि यत्नादगोप्यत । एवं महोपकाराणि तेन सर्वाणिं चक्रिरे ।। ४५८ ।। अथ भोजनवेलायां ठक्करस्तं मयूरकम् ! अदृष्ट्वा मानुषान् प्रेष्य वीक्षयामास सर्वतः ।। ४५९ ।। यावन कापि लब्धोऽसौ तावदाकुलितो भृशम् । स उच्चैः कारयामास पटहाssघोषणामिति ।। ४६० ॥ मयूरं स्वामिसिंहस्य यः कोऽपि कथयिष्यति । दिनाराष्ट्रशतं लब्धा सोऽभयं च न संशयः ॥ ४६१ ॥ तत् श्रुत्वा चिन्तितं दास्याऽनेन वैदेशिकेन किम् ? | गृह्णामि द्रविणं, भर्ता ममाऽन्योऽपि भविष्यति ॥४६२ || इति सा पटहं स्पृष्ट्वा गत्वा सिंहान्तिकेऽवदत् । शृणु देव ! पुरो भर्तुः कथनीयं यथातथम् ।। ४६३ ॥ निशि मे दोहदो जज्ञे मयूरामिषभक्षणे । १९० प्रभाकरेण कुत्रापि स तु नासादितोऽपरः ॥ ४६४ ॥ वारयन्त्यामपि मयि ततः स्नेहाऽतिरेकतः । वराकस्त्वत्यं एवायं शिखी हत्वा ममार्पितः ॥ ४६५ ।। अत्यासङ्गविनष्टोऽयमरे ! किं कृतवानिति ? | रुष्टः सिंहो भटान् प्रैषीनिग्रहीतुं प्रभाकरम् ||४६६॥ सोऽपि मित्र परीक्षार्थी लोभनन्दिगृहं गतः । १ कार्याणि, इति शेषः । २ त्वदीयः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy