________________
१८६
श्रीपार्श्वनाथचरिते
स महात्मा महाविद्वान् यः सदा दूरतश्चरेत् ।। एताभ्यः कुटिलागीभ्यो भुजङ्गीभ्य इव त्रसन् ॥ ४०४ ॥ दाक्षिण्यमपि नैतासु श्रेयसे तदतः परम् । परनारीसहोदर्य पालनीयं मया व्रतम् ॥ ४०५ ॥ कदापि द्यूतकाराणां स्थानेऽगाद् द्यूतकौतुकी । तत्र केनापि नाऽलोपि प्रत्युतोत्रासितः स तैः ॥४०६॥ किंच दुर्वचनं क्षोभं कलिं क्रौर्य कुदृश्यताम् । अङ्गच्छेदादिकं तेषां वीक्ष्य बादं व्यरज्यत ॥४०७॥ दथ्यौ च यदहो द्यूतं व्यसनानां धुरीक्ष्यते । तत् त्याज्यमीदृशं यस्य प्रत्यक्षं दृश्यते फलम् ॥४०८॥ यद्वा किमुच्यतेऽमीषां द्यूतेनेह नलादयः। अवस्थां प्रापितास्तान्तामत्र स्थित्वाऽप्यलं ततः ॥४०९॥ इत्थं विवेकसाहाय्यात् तथाऽसौ सद्गुणोऽजनि । यथा धुरि सुशीलानां दृष्टान्ते कथ्यते जनैः ॥४१०॥ सोऽन्यदा नृपमपाक्षीद् विश्वासो देव ! नोच्यते । नृपधर्मे कथं तत् ते विश्वासोऽयं मयीदृशः ? ॥४११॥ नृपः प्रोवाच वत्स ! त्वमस्मवंशपुरोधसः । वरलब्धस्ततः कस्माद् विश्वासस्त्वयि नो भवेत् ॥४१२॥ नाथ ! तत् किं धृतो बाल्ये गुप्तोऽस्मीति तदीरिते । नृपः प्राह विवेकस्योद्भेदं त्वयि प्रतीक्षितुम् ॥४१३॥ सदोषा अपि निर्दोषाः कुलिना दुष्कुला अपि । विवेकेनात्र जायन्ते दृश्यते स त्वयि स्फुटः॥४१४॥ उक्तं च-- कुलादपि वरं शीलं वरं दारिद्यमामयात् । राज्यादपि वरं विद्या तपसोऽपि वरं क्षमा ॥४१५॥ यस्य तस्य प्रसूतोऽत्र गुणवान् पूज्यते नरः । १ महाव्रतमित्यपि। २ खेददायिनीम् ।