________________
१६२
श्रीपार्श्वनाथचरिलेभूषणानीव भूषायै गुणा बाधाकरा अपि । कथ्यते तत्फलं साक्षाल्लोकेऽपि तव सङ्गते ॥ ९९ ।। तथाहिविनयादेव सौभाग्यं भाग्यं विद्यार्थसंपदः । लोकद्वयसुखस्याऽपि भाजनं विनयाद् नरः ॥ १० ॥ ध्रुवं नम्रतया लोके गुरुत्वं लभते नरः। छन्दोवर्ण इव स्तब्धः पुनर्लघुरिति प्रथाम् ॥१०१ ॥ यथा यथा प्रकृष्टानां पात्रं भवति संपदाम् । शाखीव फलभारेण नम्रः साधुस्तथा तथा ॥ १०२॥ सुवंशसंभवः कोटिलाभयुक्तोऽपि कोविदः । कोदण्ड इव नम्रत्वादात्मन्यारोपयेद् गुणः ॥ १०३ ॥ श्रूयते विनये याऽद्य विक्रमस्य कथा किल । लोकाग्रविनयस्याङ्गमिति सैव निगद्यते ॥ १०४ ॥ तथाहिभरतेऽवन्तिदेशेऽस्ति नानादेशान्तरागतैः । नरै रत्नैश्च रोचिष्णुरवन्ती नामतः पुरी ।। १०५ ॥ अद्वैतविक्रमोऽप्युच्चैत्रिविक्रमकलां दधत् । तत्रोदारचरित्रोऽभूद् विक्रमो नाम भूपतिः ॥ १०६ ॥ विसृष्टार्थोऽपि यः श्रीमान् शक्तियुक्तोऽपि यः क्षमी । दधानोऽपि सदौनत्यं पूज्येषु विनतो भृशम् ॥ १०७ ॥ ओजः-प्रसाद-माधुर्य-सौकुमार्यादिसद्गुणा । सुकवेः कवितेवास्य प्रियाऽऽसीत् कमलावती ॥ १०८ ॥ अन्यदाऽसौ निजस्थानमिन्द्रस्थानसमं नृपः। दृष्ट्वा प्रमुदितोऽत्यन्तं पप्रच्छेदं सभासदः ॥ १०९ ॥ अहो ! ब्रूत कला-विद्या-वस्तुविज्ञानमद्भुतम् । तत् किमप्यस्ति कुत्रापि यन्मे राज्ये न विद्यते ॥ ११०॥ १ संमते, इत्यपि। २ विष्णुस्त्रिविक्रमः ।