________________
श्री पर्श्वनाथचरिते
निमित्तमात्रतां योऽपि धर्मे सर्वज्ञभाषिते । प्रतिपद्येत जीवस्य सोऽपि धर्मगुरुर्मतः ।। १०४० ॥ भवानिव विशेषण हेतूदाहरणैर्युतम् ।
क इदं तत्वमाख्याति तत् स्वं मे शरणं मुने ! १ ॥१०४१ ॥ इत्युक्त्वा भवने गत्वा कृत्यमाख्याय मन्त्रिणाम् | संबोध्य नन्दने राज्यभारमारोपयद् नृपः ।। १०४२ ॥ स्वयं सुरगुरोः पार्श्वे परिव्रज्यामुपाददे । दुष्कर्मशस्त्रमुद्धर्तुमयस्कान्तमणिप्रभाम् ॥ १०४३ ॥ ज्ञानात्माविदितोत्सर्गाऽपवादविधिरागमात् । गीतार्थश्च क्रमाज्जज्ञे श्रुतस्कन्ध इवाङ्गवान् ।। १०४४ ॥ गुरोरनुज्ञयैकाकिविहारं प्रतिपद्य सः । आकाशगमनेनागात् पुष्करद्वीपमन्यदा ।। १०४५ ॥ शाश्वतानर्हतस्तत्र नत्वा वैताद्व्यसन्निधौ ।
१५२
प्रदेशे हिमशैलस्य स तस्थौ प्रतिमाधरः ।। १०४६ ।। तप्यमानस्तपस्तीव्रं सहमानः परीषहान् । साम्यमग्नमनाः कालं स तत्रागमयन्मुनिः ।। १०४७ ॥ सोऽपि जीवः कुर्कुटाहेरुत्य नरकात् ततः । हेमाद्रेर्गहरे तस्य महाहिरुदपद्यत ।। १०४८ । दोर्दण्ड इव कालस्य जन्तून् कवलयन् बहून् | आहारार्थ स बभ्राम वने तस्मिन्नहर्निशम् ।। १०४९ ।। अन्यदा पर्यटन् सोऽहिर्निकुञ्जस्थमुदैक्षत । ध्यानैकतानं किरणवेगर्षि स्वम्भवत् स्थितम् ||१०५० ॥ सद्यः प्राग्जन्मवैरेण सोऽतिकोपारुणेक्षणः । भोगेनावेष्टयत् साधुं चन्दनद्रुमिवाथ तम् ।। १०५१ ॥ दंष्ट्राभिर्विष भीष्माभिर्दन्दशूको ददंश सः । मुनिं स्थानेषु भूयस्सु दंशेषु प्रक्षरन् विषम् ॥ १०५२ ॥ दध्यौ च स मुनिर्वादमयं कर्मक्षयाय मे ।