________________
द्वितीयः सर्गः।
१४५ यद् ददाति यदश्नाति तदेव धनिनो धनम् । शेषं को वेत्ति कुत्रापि कस्याऽप्युपकरिष्यति ॥९४८ ॥ उक्तं चमृत्युः शरीरगोप्तारं रक्षितारं धनं धरा । दुश्वारिणीव हसति स्वपति पुत्रवत्सलम् ॥ ९४९॥ इह लोको भवेद् भुक्ते दत्ते परभवः शुभः । अभुक्ताऽदत्ते वित्ते नु वद कोऽत्र गुणो नृणाम् ? ॥९५०॥ धर्मादवाप्य ये लक्ष्मी न धर्मस्योपकुर्वते । कृतघ्नानां परं तेषां गृह्णीते नाम को भुवि? ॥ ९५१ ।। पुष्पाणां निश्चिते नाशे यथा देवार्चनं फलम् । तथा ज्ञानधनादीनां परोपकृतिरेव हि ॥ ९५२ ।। लक्ष्मीश्चपलनारीव कस्यापि यदि वेश्मान । भूयोवितरणाऽपत्यवन्धनाद् भजति स्थितिम् ॥ ९५३ ।। नास्तीतिसतताभ्यासात् भवेत् सर्व सदप्यसत् । शून्येन गुणितो येन लक्षाकोऽप्येति शून्यताम् ॥ ९५४ ॥ बहारम्भोऽपि दानेन स्वाऽनुमानेन शुध्यति । न्यायपूर्व यथा तेन बहुधापि क्रयाणकम् ।। ९५५ ॥ प्राचीनसुकृतग्राससंभवायाः खलु श्रियः।। गुणोऽयमेव यदानं पात्रायाऽगण्यपुण्यकृत् ॥ ९५६ ।। आस्तां पात्रगतं दानमस्मात् साधारणादपि । तद्भवेऽप्यद्भुतं भाग्यं कुबेरस्येव जायते ॥ ९५७ ॥ कः कुबेरः कथं चासीत्तस्य भाग्यमिहाद्भुतम् । इति पृष्टो मुनिस्तेन कथयामासिवानिदम् ।। ९५८ ॥ श्रीविशालपुरे राजा गुणाढ्योऽथ विभूतिभिः । कुबेर इव तत्रासीत् कुबेराख्यो धनाधिपः ॥ ९५९ ॥ श्रीदेवताऽन्यदा दिव्यरूपवेषविभूषणा । वासौकसि तमभ्येत्य निशि सुप्तमभाषत ।। ९६० ॥