SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। १४३ देवताः कोऽपि सस्मार कोऽपि स्वगृहमानुषान् । कोऽपि तस्थौ निपत्याऽधः कोऽपि झम्पामदाज्जले ॥९२२॥ कोऽपि मां रक्ष रक्षेति पूत्कृत्य चिरमूर्ध्वगः । श्वासेनाऽऽपूर्णहृदयो मुखं व्यादाय तस्थिवान् ॥ ९२३ ॥ इत्याश्रितजनस्यार्तिकारणाज् जातपातकः । स नूनं सहसा पोतः शतखण्डमभज्यत ॥ ९२४ ॥ धनसारस्तु लब्धैकफलको वार्धिवीचिभिः । बहिः क्षिप्तो गतोऽटव्यामिति दीनमचिन्तयत् ॥ ९२५ ॥ अहो ! मम क तदेहं क धनं क परिच्छदः । विधिना काहमानीतः पवनेनार्कतूलवत् ? ॥ ९२६ ॥ धिङ् मां येन धनं मोहात् प्रभूतमपि संचितम् । न धर्मे व्ययितं नाङ्गे परस्योपकृतौ नवा ॥ ९२७ ॥ इत्यादि भावयंस्तत्राऽपश्यदाम्रतरोस्तले । मुनिमेकं तदोत्पन्नकेवलज्ञानभासुरम् ॥ ९२८ ॥ तन्महिम्नाऽऽगतैर्देवर्निर्मिते वर्णपङ्कजे । तमासीनं मुदा नत्वा धनसारोऽप्युपाविशत् ।। ९२९ ॥ श्रुत्वा धर्ममथो लब्धाऽवसरः पृच्छति स्म सः । कृपणोऽहं कथं नाथ ! नष्टश्च विभवः कथम् ? ॥९३०॥ केवली प्राह भो भद्र ! धातकीखण्डभारते । धनाढ्यगृहसंभूतावभूतां भ्रातरावुभौ ॥९३१ ॥ मृतेऽथ पितरि ज्येष्ठो गृहनेताऽभवत् स च । गम्भीरः सरलो दाता कनिष्ठः कृपणः पुनः ॥ ९३२ ॥ ततो ज्येष्ठो यदा दानं दीनादिभ्यः प्रयच्छति । तदाऽतीव लघुस्तत्र प्रद्वेषं वहते हृदि ॥ ९३३ ॥ वारयेच्च भृशं दानाज्ज्येष्ठस्तु विरमेद् नहि । प्रद्विष्टः सुतरां तस्माद् विभिन्नो लघुकः स्थितः ॥ ९३४ ॥ ज्येष्ठस्य ददतोऽपि श्रीवर्धते पुण्यसेवनात् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy