SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितम् । तत्राऽऽसीत् कोशसंपन्नः पत्रांऽऽन्यः स्वगुणोज्ज्वलः । यशःपरिमलस्फातिप्रीणिताऽशेषविष्टपः ॥ २१ ॥ प्रीताऽर्थिप्रस्तुतस्तोत्रभ्रमरस्वरबन्धुरः। संसेव्यो राजहंसानां समस्तसुमनोगुरुः ॥ २२ ॥ . अरविन्दोपमः श्रीमान् अरविन्दो नरेश्वरः । किन्तु नित्यश्रिया ज्येष्ठस्तथा कण्टकवर्जितः ॥ २३ ॥ (त्रिभिर्विशेषकम् ) तस्य सद्गुणमाणिक्यमण्डना गजगामिनी । सुवर्णशालिनी न्यायधर्ममार्गप्रवर्तनी ॥ २४ ॥ परैरपरिभूतात्मा नाथाऽभ्युदयकारिणी । प्रियाऽस्ति धारणी नाम राज्यलक्ष्मीरिवाऽपरा ॥ २५ ॥ (युग्मम् ) कुलकादिक्रमेणैवमूोर्ध्व स्तोकवृत्तवान् । आरम्भोऽयं प्रभोराद्यभवाऽऽधाराय मेरुवत् ॥ २६ ॥ राज्ये राज्ञोऽरविन्दस्य विधिना कृतशान्तिकः । कुलीनऋमिकः स्पष्टभाषको विदुषां वरः ॥ २७ ॥ नृपधर्मसमाचारविचारचतुरः स्थिरः । ब्रह्मकर्मणि निष्णातो विश्वभूतिः पुरोहितः ॥ २८ ॥ निर्मलं मानसं यस्य त्यक्ताऽखिलजलाशयः। सर्वज्ञोपज्ञसद्धर्मराजहंसः समाश्रयत् ॥ २९ ॥ सधर्मचारणी तस्य नामतोऽभूदनुद्धरा । निजवंशे पताकेव या रराज गुणोज्ज्वला ॥३०॥ कुलाचारधुराभारधरणोधुरकन्धरौ । कमठो मरुभूतिश्चाऽभूतां सुतकृषौ तयोः ॥ ३१ ॥ कमठस्य प्रिया जज्ञे वरुणा हरिणेक्षणा । . मरुभूतेस्तु लावण्यवसुभूमिर्वसुन्धरा ॥ ३२ ॥ १ राजपक्षे पत्राणि वाहनानि, तैराढ्यः । २ अत्र ड-लयोरक्यं समाश्रेयम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy