________________
श्रीपार्श्वनाथचरितेगतरागा सरागेऽपि मलिनेऽप्यमलाऽभवत् । . तस्य चित्ते स्थिताऽप्येषा सत्याः शक्तिर्महाद्भुता ॥७६४॥ अथ तस्याः स्वभावं तं विदित्वा सार्थनायकः। ' दुष्टोऽप्यन्तर्बहिर्वृत्त्या क्षमयामास सादरम् ॥ ७६५ ॥ सार्थेशकथनात् तस्य स्त्रीभिर्विश्वासिताऽधिकम् ।। तत्रायाति सदा राज्ञी कर्म कर्तुं यथास्थिति ॥ ७६६ ॥ अथ प्रयाणदिवसे मध्याह्नसमये पुनः। विशेषकार्यमुद्दिश्य संकेतितवधूजनैः ॥ ७६७ ॥ आकार्याऽलीककृत्येन दिनशेषं विलम्बितम् । तां प्रगृह्य स्खसार्थेन प्रतस्थे स्वपुरोपरि ॥ ७६८ ॥
(युग्मम्) गच्छता विविधोपायैः क्षोभ्यमाणाऽपि तेन सा । ध्यायन्ती स्वपतिं चित्ते मौनमेव समाश्रयत् ॥ ७६९ ॥ दृशैव क्रूरया तस्याः स पापाहितदुर्मतिः। न शशाक व्यलीकाय तत्रैवं यान्ति वासराः ॥ ७७० ॥ इतश्च, मय्यागतायामद्यापि किमेषा मद्विरोधिनी ? । अत्र स्थितवती तीव्रमत्सराद् नृपवल्लभाम् ॥ ७७१ ॥ निष्कास्य दूरतः स्वैरं विजृम्भितमवस्थया । गृहे राज्ञो गृहं येनारण्याभं गृहिणीं विना ॥ ७७२ ॥
(युग्मम्) अवस्थासंगमादेकमन्यद् राज्ञीविनिगमात् । पुटपाकसमं दुःखं तदा जातं महीपतेः ॥ ७७३ ॥ सहिष्ये सर्वमप्येतत्कठोरहृदयोऽस्म्यहम् । राज्ञी च मद्वियोगार्ता भविष्यति कथं हहा ! १ ॥७७४॥ एतदप्यस्तु रे दैव ! पूर्यन्तां ते मनोरथाः। इति दैवमुपालम्भ्य संबोध्यात्मानमात्मना ॥ ७७५ ॥