SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अहम् श्रीविजयधर्मसूरिगुतायो नमः । श्रीभावदेवमूरिविरचिलिम श्रीपार्श्वनाथचरितम् < Cake –– नाभेयाय नमस्तस्मै यस्य क्रमनखांशवः । मौलौ दधति नम्राणां मङ्गल्यामक्षतश्रियम् ॥१॥ स्तुमः श्रीशान्तिनाथस्य क्रमच्छायाद्रुमद्वयम् । यस्मिनश्रान्तविश्रान्तैर्द्वन्द्वतापो न वेद्यते ॥२॥ मनोदृशि यदंशांशुदिव्याञ्जननियोजनम् । कल्याणनिधिलाभाय सतां नेमि तमाश्रये ॥३॥ भक्तिमहो द्विजिह्वोऽपि प्रापोचैःपदसम्पदः। यस्मिन्नस्मि नतो' भक्त्या तं श्रीपार्श्वजिनेश्वरम् ॥ ४ ॥ तं नमामि जिनं वीरं यदुत्था त्रिपदी नदी। क्षमाधरगुरुं प्राप्य विश्वं व्यापाऽस्तकल्मषा ॥ ५॥ समस्तेभ्यः शुभज्ञानवदान्येभ्यो जगत्रये । त्रिकालविषयेभ्योऽपि जिनेन्द्रेभ्यो नमोऽस्तु मे ॥६॥ श्री-विद्यावास्तु हस्ताभ्यां वाग्देवी पद्म-पुस्तकम् । जीयाद् दधाना दौर्गत्सदुःखोच्छेदाय देहिनाम् ॥ ७ ॥ नमोऽस्तु गुरुचन्द्राय यत्करस्पृष्टमुर्द्धनि । आविर्भवति भव्येऽश्मन्यपि वाक्यसुधारसः ॥८॥ जयन्त्यऽन्येऽपि ये सन्तो भवपङ्केऽपि पद्मवत् । १ कर्तरि क्तः। २ शुभज्ञानदानशीलेभ्यः । ३ चन्द्रपक्षे अश्मनि चन्द्रकान्ताऽश्मनि ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy