________________
द्वितीयः सर्गः।
११३ बन्धुर्यो धीरयत्यात स पुत्रो यत्र निर्वृतिः ॥ ५४० ॥ तदधीतं श्रुतं येन नैवात्मा नरके पतेत् । क्लेशायासकरं शेषं सर्वमेव विडम्बना ॥ ५४१॥ यदर्थमयमारम्भस्तयोरेवंविधा गतिः । तदध्रुवकृते कृत्यं हारयामि ध्रुवं कथम् ? ॥ ५४२ ॥ गुरूपदेशो हि यथापात्रं परिणमेदिह । स्थानभेदेन मेघाम्भो मुक्ता-लवणतां ब्रजेत् ॥ ५४३ ।। प्रियः पर्वतकः पुत्रः पुत्रादप्यधिको वसुः। नरकं यास्यतस्तस्माद् गृहवासेन किं मम ? ॥ ५४४ ॥ निर्वदादित्युपाध्यायः प्रव्रज्यामग्रहीत्तदा । तत्पदं पर्वतोऽध्यास्त व्याख्याक्षणविचक्षणः ॥ ५४५ ॥ गुरुप्रसादतो भूत्वा सर्वशास्त्रविशारदः। नारदः शारदाम्भोदशुद्धधीः स्वां भुवं ययौ ।। ५४६ ॥ नृपचन्द्रोऽभिचन्द्रोऽपि जग्राह समये व्रतम् । ततो वसुरभूद् राजा वासुदेवसमः श्रिया ॥ ५४७ ॥ सत्यवादीति स पाप प्रसिद्धिं पृथिवीतले। . तां प्रसिद्धिमपि त्रातुं सत्यमेव जगाद सः॥५४४ ॥ यः प्राप यादृशीं ख्यातिमशुभामथवा शुभाम् । तदाश्लिष्ट इव प्रायस्तल्लेश्यः स भवेत् सदा ।। ५४९ ।। अथैकदा मृगयुणा मृगाय मृगयाजुषा । चिक्षिपे विशिखो विन्ध्यनितम्बे सोऽन्तराऽस्खलत् ॥५५०॥ बाणस्खलनहेतुं स ज्ञातुं तत्र ययौ ततः । आकाशस्फटिकशिलामज्ञासीत् पाणिना स्पृशन् ॥ ५५१॥ स दध्याविति मन्येऽस्यां संक्रान्तः परतश्चरन् । भूमिच्छायेव शीतांशौ ददृशे हरिणो मया ॥ ५५२ ॥ पाणिस्पर्श विना नैषा सर्वथाऽप्युपलक्ष्यते । अवश्यं तदियं योग्या वसोर्वसुमतीपतेः ।। ५५३ ॥