________________
द्वितीयः सर्गः।
९९
भक्त्या च दिव्यशक्त्या च भवतो मज्जनादिकः ॥३५४॥ तथा तवानुवृत्त्यैष लोकः प्रकटितो मया । भीमेनालोकितं यावत् तावद् दृष्टोऽखिलो जनः ॥३५४॥ अत्रान्तरे कुमारेण स्तूयमानः सुरा-ऽसुरैः । आगच्छन् ददृशे व्योम्ना श्रीचारणमुनीश्वरः ॥ ३५६ ॥ स्थितः पद्मासने देवनिर्मिते स पुरो बहिः । भीम ऊचे राक्षसेन्द्र ! ममायं गुरुरागतः॥ ३५७ ॥ अस्य पादाम्बुजं दृष्ट्वा करिष्ये सफलं भवम् । . खस्येति भणितो रक्षोराजः पियममन्यत ।।३५८ ॥ यत उच्यतेदेवताप्रणिधानेन गुरूणां वन्दनेन च । न तिष्ठति चिरं पापं छिद्रहस्ते यथोदकम् ।। ३५९ ॥ ततः कुमारो मन्त्री च रक्षो हेमरथस्तथा । ययुः सर्वेऽपि कल्याणीभक्तयो मुनिसनिधौ ॥ ३६० ॥ मुनिस्तैः प्रणतस्तोषाद् भूतलन्यस्तमस्तकैः । सुधासिक्तैरिवागत्य सर्वपौरजनैरपि ॥ ३६१ ।। मुनिनाऽथ समारब्धा देशना यदहो ! जनाः!। कषाया इह चत्वारश्चतुर्गतिनिबन्धनम् ॥ ३६२॥ तेषु क्रोधो विशेषेण दारुणो यः कृशानुवत् ।। सर्व दहति जीवानामगणश्च नितरम् ।। ६६३ ॥ अहो ! जडत्वं जन्तूनामन्यस्थानस्थितोऽपि यः । संतापं कुरुते क्रोधाङ्गारः, स. हृदि पार्यते ॥ ६६४ ॥ परं प्रति विघाताय साहाय्यमिव देहिनः। कुर्वस्तमेव हन्त्युच्चैरहो ! कोपस्य कैतवम् ॥ ३६५ ॥ अत उच्यतेस एव सात्विको विद्वान् स तपस्वी जितेन्द्रियः । १ अगणयन् , इत्यर्थः ।