SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Teaching Point: किना जगत्-declension एकविंशतितमः भारतीया संस्कृतिः पाठः जगत् चिन्तनधारा विशिष् अन्तरेण निदर्शनभूत सहिष्णता प्रापक लक्ष्यम् अन्ततः अवलम्बिन् अनुव्रत कलहाय __प्र+ यत् रम् सत्कारः सम्+मानय् जगति कस्या अपि जातेः काचित् चिन्तनधारा संस्कृतिः वा भवति यया सा जातिः अन्याभ्यः विशिष्यते। संस्कृतिमन्तरेण न काsपि जातिः राष्ट्रस्य रूपेण जीवति । भारतीयानामपि च स्वा विशिष्टा जीवनपद्धतिः चिन्तनपद्धतिश्च । अस्माकं संस्कृत्यां यानि कानिचित् प्रमुखानि वैशिष्ट्यानि सन्ति, तेषु एव निदर्शन-भूतानि कानिचित् वयं विचारयिष्यामः । भारतीयस्य जीवनस्य प्रथमं वैशिष्ट्यमस्ति-परमधर्म-सहिष्णुतेति । भारतीयाः अनुभवन्ति यत् जगतः सर्वे एव धर्माः ईश्वर-प्रापकाः मोक्ष-प्रापकाः वा । सर्वे धर्माः एकमेव लक्ष्यम् अन्ततः गच्छन्ति । एतत् एव कारणं यत् अनेकेषां धर्माणाम् अवलम्बिनः परस्परमनुव्रताः अत्र स्नेहेन वसन्ति परस्परं च न कलहायन्ते । द्वितीयं वैशिष्ट्यमस्ति-आत्मशुद्धिरिति । आत्म-शुद्ध्यै एव स्थान-स्थाने सत्संगा भवन्ति । राग द्वेषं च त्यजत, दयां परोपकारं च नित्यं कुरुत-इत्यादिभिः उपदेशैः जनाः तथा भवितुं प्रयतन्ते । 778
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy