SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Teaching Point : — (i) शत् (ii) गच्छत्– declension विशतितमः पाठ: पश्चिम दूष् (दूषय्) पक्षिन् शुश्रुष् आ+रभू दिवा द्वित्र bone Fl कोहरा गृधः मार्जारः च फीर प्र+स्था अभि+नि+विश् शंकालु कृतज्ञता विविक्तम् कुत्रचित् वृक्षे आसीत् पश्चिमे वयसि वर्तमानः कश्चित् गृध्रः केचिच्च पक्षिणः । यदा दिवा पक्षिणः विहर्तुं प्रस्थिताः तदा वृक्षे एव तिष्ठन् अयं गृध्रः तेषां शावकान् रक्षति स्म । कृतज्ञतया सायं किंचित् भोजनं तस्मै यच्छन्तः पक्षिणः सुखेन कालम् अनयन् । एवमेव अगच्छत् महान् कालः । एकंदा कश्चित् मार्जारः खगानां शावकान् खादितुं तत्रागच्छत् । तं दृष्ट्वा गृध्रः तमदूषयत् अचिरमेव च प्रणष्टुम् तस्मै अकथयत् । तदा मार्जारोऽवदत् 'भगवन्! भवान् अपि एवं वदति । धर्मम् आचरतः भवतः ख्यातिं श्रुत्वा तु अहमत्र आगतः । भवति शुश्रूषितव्यमिति च मे बुद्धिः । परं भवान् अतिथिमेव दूषयति । अहं तु गंगायाः तीरे निवसन् प्रतिदिनं शास्त्राणि पठामि । धर्मं पालयन् च अहिंसाम् आचरामि । नित्यम् ईश्वरं चाभिनिविशते मे मनः । ज्ञानं लब्धुम् अहमत्र आगतवान् परं भवतः दुर्व्यवहारं पश्यन् अहमधुना किं करवाणि इति नावगम्यते इति । 73
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy