________________
[ अष्टक-समुच्चय
प्रज्ञानान्धतमो विनाशनविधौ, चञ्चत् प्रभाभासुरा। भास्वद् भास्करतोऽधिकाद्युतिमयी, श्रीकल्पवृक्षोपमा । संसाराब्धिसुपारगन्तुमनसां, पोतायमानाऽनिशं । प्रज्ञानावृतचेतसां तनुजुषां, दृष्टिर्न तत्रेङ्गते ॥ ६ ॥ अर्हन्मूतिरहो विबोध - तरणी, स्नेहाम्बुवर्षी झरी । उत्फुल्लश्च नितान्तकान्तनय निर्धान्त शान्तिप्रदा ।। सिद्धान्तागमसूक्तिमुक्तिवचनैनित्यं प्रमाणीकृता । अज्ञानावृतचेतसां तनुजुषां, दृष्टिर्न तत्रेङ्गते ॥ ७ ॥ अर्हन्मूत्तिरहनिशं हृदि गता, संराजते यस्य च । तच्चित्तानुगताः समस्तविषयाः, सम्भ्रान्ति निर्धान्तितः ।। तस्मात् तां समुपास्य शुद्धहृदयैर्भाव्यं सदा सज्जनः । प्रज्ञानावृतचेतसां तनुजुषां, दृष्टिर्न तत्रेङ्गते ।। ८ ।। अर्हन्मूत्तिसमर्थकं गुणकर, सत्तत्त्वसन्दर्शकं । नित्यानन्दकरं सुशान्तिसुरनदं, सौहार्दसम्भावकम् ।। सत्यं शाश्वतमप्रमेयमनघं, माहात्म्यमालामयं । यावच्चन्द्रदिवाकरौ च वसुधा संराजतामष्टकम् ।। ६ ।।
___ ( वसन्ततिलका - वृत्तम् ) श्रीनेमिसूरिप्रवरस्य गुरोः सुशिष्यः ।
लावण्यसूरिरभवन्निखिलागमज्ञः ।। तद् दक्षसूरिप्रवरस्य सुशीलसूरिः । शिष्यो भवन् रचितवान् प्रतिमाष्टकञ्च ।। १० ।।