SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रास्ताविकम् ( प्रथम खण्ड से उद्धृत ) संसारोऽयं जन्ममरणस्वरूप - संसरण भवान्तरभ्रमरणायाः विन्ध्याटवीव घनतमिस्रावृत्तादर्शनतत्वा भ्रमरणाटवी । कर्मक्लेशकर्दमानुविद्ध े ऽस्मिन् जगतीच्छन्ति सर्वे कर्मक्लेशकर्दमैः पारं मोक्षायाहर्निशम् गन्तुम् । कथं निवृत्तिः दुखैः ? कथं प्रवृत्तिः सुखेषु च ? जिज्ञासयानया तत्त्वदर्शिनः मथ्नन्ति दर्शनागमसागरं तत्त्वामृतप्राप्तये त्रिविष्टपैरिवात्र । श्रीजैन श्वेताम्बर - दिगम्बरसम्प्रदाये श्रीमदुमास्वातिरपि प्रजायत महान् वाचक-प्रवरः येन तत्त्वचिन्तने कृत्वा भगीरथश्रमश्चाविष्कृतममृतं, भव्यदेवानां कृते मोक्षायात्र । उमास्वातिस्तत्त्वार्थाधिगम-सूत्राणां रचयितासीत् । यो हि वाचकमुख्यशिवश्रीनां प्रशिष्यः शिष्यश्च घोषनन्दिश्रमरणस्य । एवश्व वाचनापेक्षया शिष्यो बभूव मूलनामकवाचकाचार्याणाम् । मूलनामकवाचकाचार्यः महावाचकश्रमण श्रीमुण्डपादस्य शिष्य : आसीत् । न्यग्रोधकानगरमपि धन्यं बभूव वाचकश्रीउमास्वातेः जन्मना । स्वातिः नाम्नः पितापि उमास्वातिः सदृशं पुत्ररत्नं प्राप्य स्वपूर्वपुण्यफलमवापेह । धन्या जाता वात्सीजननी । उमास्वातिः स्वजन्मनाऽलंचकार कौभीषणी गोत्रम् नागरवाचकशाखाश्च । स्थाने-स्थाने विहरतोऽयं महापुरुषः कृतगुरुक्रमागतागमाभ्यासः कुसुमपुरनगरे रचयामास ग्रन्थोऽयं तत्त्वार्थाधिगमभाष्यः । ग्रन्थोऽयं रचितवान् स्वान्तसुखाय प्रारिणमोक्षाय कल्याणाय च । तेन महाभागेन तत्त्वार्थाधिगमसूत्रेषु स्पष्टीकृतं यज्जीवाः सम्यग्दर्शनज्ञानचारित्रपूर्वकं वैराग्यं यावन्नैवाधिगच्छन्ति संसारशरीरभोगाभ्यां तावन्मोक्षसिद्धिः दुर्लभा । सम्यग्दर्शनाभावे ज्ञानवैराग्येऽपि दुष्प्राप्ये । जीवानां जगति क्लेशाः कर्मोदयप्रतिफलानि जायन्ते । जीवानां कृत्स्नं जन्म जगति कर्मक्लेशैरनुविद्धः । भवेच्चानुबन्धपरंपरेति तत्त्वार्थाधिगमे विश्लेषितमस्ति । कर्मक्लेशाभ्यामपरामृष्टावस्था एव सत्स्वरूपं सुखस्य । पातञ्जलयोगदर्शनेऽपि " क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषः विशेष : ईश्वर:" जैनदर्शने तु इदमप्येकान्तिकम् यत् पातञ्जलिना पुरुषजीवं ज्ञानस्वरूपं वा सुखस्वरूपं नैवामन्यत । किन्तु जैनदर्शने तु जीवः ज्ञानस्वरूपश्च सुखस्वरूपश्चापि क्लेशकर्मविपाकाशयैरपरामृष्टावस्थायाः धारको विद्यते । निर्दोषमेतदेव सत्यमुपादेयश्च ।
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy