SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ASALAAMDAMAADMAMATALMANDAMANDALAMAADMAAMANMAMMAMMALMALA श्रीतत्त्वार्थाधिगमसूत्रे [ सारांश Amrita AsANAN ANNAMASANAMANASAMANANA प्राग्वेयकेभ्यः येऽपि, विमानाः 'कल्प' कथ्यते । ब्रह्मलोकालयादेवाः, ब्रह्मवास्यं वसन्ति ते ।। १३ ।। अतः लोकान्तिकाः ख्याताः, पूर्वाशादि प्रकर्म च । - तिर्यञ्चानां स्वरूपं किं ?, शेषौपातिक ये हि च ॥ १४ ॥ दक्षिणाधिपतीनां तथोत्तरेश्वरास्थितिः । सार्धपल्योपमोत्कृष्टा, भवनेश्वरयोः द्वयोः ।। १५ ।। चमरो दक्षिणार्धेशः बलिर?त्तरेश्वरः ।। सागरोपममधिका, तेषां संख्या स्थितिः भवेत् ।। १६ ।। सौधर्मात् सिद्धदेवानां, स्थिति द्वे सागरोपमे । सनत्कुमारे सप्तश्च, माहेन्द्राच्युतपरास्थितिः ।। १७ ।। माहेन्द्रात् परतः पूर्वा, पराऽनन्तर या स्थितिः । जघन्या सा ब्रह्मलोके, भवेत् दशसागरोपमा ।। १८ ।। रत्नप्रभेति नारके, जघन्या सागरोपमा । तथैव शर्करायां हि, द्वाविंशतिस्तमःप्रभा ।। १६ ।। दशवर्षसहस्राणि, प्राद्यायां नारकस्थितिः । भवनवासिनां वर्ष, दशसहस्रामिता भवेत् ।। २० ।। जघन्या व्यन्तराणां, दश सहस्राणि जायते । ज्योतिष्काणां सुराणाञ्च, पल्योपमपरास्थितिः ।। २१ ॥ एकपल्योपमोत्कृष्टा, ग्रहाणामपि स्थितिर्भवेत् । पल्योपमार्ध परा हि, नक्षत्राणां स्थितिः कृता ।। २२ ।। पल्योपम चतुर्भागः, तारकाणां स्थितिर्भवेत् ।। तारकेभ्य हि शेषास्ते, ज्योतिष्का देव सन्ति ये ।। २३ ।। तेषां स्थितिः चतुर्भागः पल्योपमा परा स्थितिः । समाप्तोऽयं तुरीयो हि, देवानां गति वणितः ॥ २४ ।। ॥ इति तत्त्वार्थाधिगमस्य देवगतिवर्णनविषयीकृतः यस्मिन्निति चतुर्थोध्यायः सारांशः समाप्तः ॥ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwww Alliandidadabahaddhandhahamadhalaamaanaamanardastibhabhishamadhalled
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy