SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ( ५८ ) " पुष्पोपगाँश्चैव फलोपगाँश्च यः पादपान् यच्छति (वै) द्विजाय । सुखीसमृद्धं बहुरत्नपूर्ण, लभेत यत्नोपचितं गृहं वै ॥ ६५ ॥ भक्ष्यान्नपानस्य रसस्य दानं सर्वानवाप्नोति रसान् प्रकामम् । प्रतिश्रयाच्छादन सम्प्रदाता, प्राप्नोति तानेव न संशयोऽत्र ॥ ६६ ॥ सग्दानगन्धान्यनुलेपनानि, स्नानानि माल्यानि च मानवो यः । दद्याद् द्विजेन्द्राय भवेदरोग-स्तथा सुरूपश्च नरेन्द्रकल्पः ||६७ || बीजैरशून्यं शरणैरुपेतं दद्याद् गृहं यः पुरुषो द्विजाय । पुण्याभिरामं बहुवत्रपूर्ण, लभत्यधिष्ठानपरं मुनीश ! ॥ ६८ ॥ सुगन्धचित्रास्तरणोपपन्नं दद्यानरो यः शयनं द्विजाय । रुपान्वितां पुत्रवतीं मनोज्ञां भार्यामयत्नोपगतां लभेत् सः " ॥ ६९ ॥ व्यास उवाच - यानि यानि तु देयानि दानानि परिचक्षते । तेभ्यो विशिष्टं किं दानं १, किं तारयति । तद् वद सनत्कुमार उवाच अभयं सर्वसत्त्वेभ्यो, व्यसने चाप्यनुग्रहः । यच्चाभिलषितं दद्यात् तृषितायोपयाचते ॥ ७१ ॥ ? दत्तमन्वेति यद्दत्वा तद्दानं श्रेष्ठमुच्यते । दत्तं दातारमन्वेति तच्छृणुष्व महामते । ॥ ७२ ॥ हिरण्यदानं गौदानं, पृथिवीदानमेव च । एतानि वै पवित्राणि, तारयन्त्यतिदुष्कृतिम् ॥ ७३ ॥ ॥७०॥
SR No.022530
Book TitleMat Mimansa
Original Sutra AuthorN/A
AuthorVijaykamalsuri, Labdhivijay
PublisherMahavir Jain Sabha
Publication Year1921
Total Pages236
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy