SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ૫૮૮ તત્ત્વાર્થ સૂત્ર निष्क्रियाणि च ॥ ५-६॥ आ आकाशादेव धर्मादीनि निष्क्रियाणि भवन्ति, पुद्गलजीवास्तु क्रियावन्तः, क्रियेति गतिकर्माह ॥६॥ ____ अत्राह-उक्तं भवता प्रदेशावयवबहुत्वं कायसंज्ञमिति, तस्मात् क एषां धर्मादीनां प्रदेशावयवनियम इति ?, अत्रोच्यते भा०-सर्वेषां प्रदेशाः) सन्ति अन्यत्र परमाणोः, अवयवास्तु स्कन्धानामेव, वक्ष्यते हि 'अणवः स्कन्धाश्च' 'संघातभेदेभ्य उत्पद्यन्त' इति ॥ तत्र असङ्ख्येयाः प्रदेशा धर्माधर्मयोः ॥ ५-७॥ भा०-प्रदेशो नामापेक्षिकः, सर्वसूक्ष्मस्तु परमाणोरवगाह इति ॥७॥ जीवस्य च ॥ ५-८॥ भा०- एकजीवस्य चासङ्ख्येयाः प्रदेशा भवन्तीति ॥८॥ आकाशस्यानन्ताः ॥ ५-९॥ भा०-लोकालोकाकाशस्यानन्ताः प्रदेशाः, लोकाकाशस्य तु धर्माधर्मैकजीवैस्तुल्याः ॥९॥ .. संख्येयासंख्येयाश्च पुद्गलानाम् ॥ ५-१०॥ भा०-सङ्ख्येया असङ्ख्येया अनन्ताश्च पुद्गलानां प्रदेशा भवन्ति, अनन्ता इति वर्तते ॥१०॥ नाणोः ॥ ५-११॥ भा०-अणोः प्रदेशा न भवन्ति । अनादिरमध्योऽप्रदेशो हि परमाणुः ॥११॥ लोकाकाशेऽवगाहः ॥ ५-१२॥ भा०-अवगाहिनामवगाहो लोकाकाशे भवति ॥१२॥ धर्माधर्मयोः कृत्स्ने ॥ ५-१३ ॥ भा०-धर्माधर्मयोः कृत्स्ने लोकाकाशेऽवगाहो भवतीति ॥१३॥ एकप्रदेशादिषुभाज्यः पुद्गलानाम् ॥ ५-१४॥
SR No.022527
Book TitleTattvarthadhigam Sutra Pancham Adhyaya Vivechan
Original Sutra AuthorN/A
AuthorVikramsuri, Naypadmashreeji
PublisherShrutnidhi
Publication Year2003
Total Pages606
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy