SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ 76 APPENDIX E. सौधर्मादिध्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु । स भवति देवो वैमानिको महर्द्धिद्युतिवपुष्कः ॥२८॥ तत्र सुरलोकसौख्यं चिरमनुभूय स्थितिक्षयात्तस्मात् । पुनरपि मनुष्यलोके गुणवत्सु मनुष्यसङ्केषु ॥२६॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसंपन्नः । श्रद्धासम्यक्त्वज्ञानसंवरतपोबलसमयः ॥३०॥ पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसारः । सेत्स्यति ततः परं वा खर्गान्तरितस्त्रिभवभावात् ॥३० १॥ __ यश्चेह जिनवरमते ग्टहाश्रमी निश्चितः सुविदितार्थः । दर्शनशीलवतभावनाभिरभिरञ्जितमनस्कः ॥३०॥ स्थलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जितः सततम् । दिग्वतमूर्ध्व देशावकाशिकमनर्थविरतिं च ॥३०३॥ मामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च । न्यायागतं च कल्पं विधिवत्पात्रेषु विनियोज्यम् ॥३०४॥ चैत्यायतनप्रस्थापनानि च कृत्वा शक्तितः प्रयतः । पूजाश्च गन्धमाल्याधिवासधूपप्रदौपाद्याः ॥३०५॥ प्रशमरतिनित्यषितो जिनगुरुसाधुजनवन्दनाभिरतः । संलेखनां च काले योगेनाराध्य सविशुद्धाम् ॥३०६॥ प्राप्तः कल्पेम्चिन्द्रत्वं वा मामानिकत्वमन्यदा । स्थानमुदारं तत्रानुभूय च सुखं तदनुरूपम् ॥३० ७॥ मरलोकमेत्य सर्वगुणसंपदं दुर्लभां पुनर्लब्धा । 1 H. adds च. * A. परिमाणं. २०. विधिना.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy