SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ APPENDIX E. कर्मशरीरमनोवागविचेष्टितोच्छामदुःखसुखदाः स्युः ।। जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः ॥२१७॥ परिणामवर्तनाविधिपरापरत्वगुणलक्षण: कालः । सम्यक्त्वज्ञानचारित्रवौर्यशिक्षागुणा जौवाः ॥२१॥ पुद्गलकर्म शुभं यत्तत्पुण्य मिति जिनशासने दृष्टम् । यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दिष्टम् ॥२१६॥ योगः शुद्धः पुण्यास्रवस्तु पापस्य तद्विपर्यासः । वाक्कायमनोगुप्तिर्निरासवः संवरस्वतः ॥२२॥ संवृततपउपधानात्तु निर्जरा कर्मसन्ततिबन्धः । बन्धवियोगो मोक्षस्विति संक्षेपात्रवपदार्थाः ॥२२१॥ एतेष्वध्यवसायो यो ऽर्थषु विनिश्चयेन तत्त्वमिति। सम्यग्दर्शनमेतत्तु तन्निसर्गादधिगमावा ॥२२२॥ शिक्षागमोपदेशश्रवणान्येकाथिकान्यधिगमस्य । एकार्थः परिणामो भवति निसर्गः स्वभावश्च ॥२२३॥ एतत्सम्यग्दर्शनमनधिगमविपर्ययौ तु मिथ्यात्वम् । ज्ञानमथ पञ्चभेदं तत्प्रत्यक्ष परोक्षं च ॥२२४॥ तत्र परोक्षं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् । प्रत्यक्षं त्ववधिमनःपर्यायौ केवलं चेति ॥२२॥ एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः । एकादौन्येकस्मिन् भाज्यानि त्वा चतुर्य इति ॥२२६॥ सम्यग्दृष्टानं सम्यग्ज्ञानमिति नियमतः सिद्धम् । R Var H. नप उपधामं तु. १H. तुभन्दात् संशयस
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy