SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ APPENDIX C. पृथः । तदुपरि देवच्छन्दकः पञ्चधनु:शत उभयतस्तदधिकोच्छ्रायः । तत्र प्रतिमाष्टशतं जिनमानम् । तदपरं दक्षिणार्धभरतकूटं तदत् । तदुपरि प्रामादः पूर्वमानः । तन्मध्ये मणिपौठिकायां सिंहासनमधिपपरिवारसिंहासनवृतम् । तदधिपो भरतः पल्योपमस्थितिर्देवः। तद्दक्षिणतोऽन्यजम्बूद्वीपे भरतराजधानी भरतनिवासः । तथा शेषेषु पञ्चसु खनामानो देवाः । इयोनृत्तमालकृतमालकौ ॥ वृषभकूटो हिमवन्मध्यभागदक्षिणनितम्बे रत्नमयो ऽष्टावुच्छ्रितः चतुर्वादशोपर्यधोविस्तृत ऋषभदेववासः । ( इति भरतक्षेत्रसंक्षेपः ) भरतोत्तरतो हिमवान् पूर्वापरतो लवणावबद्धो भरतदिगुणविस्तारः प्रतोच्छायो हेममयो मणिविचित्रः । तदुपरि बहुमध्ये पद्महदः प्रागपरायितसहस्रं पञ्चशतविस्तृतः चतुःकर्णा* दशयोजनावगाढो रजतकूलो वज्रमयपाषाण: तपनीयतलः सुवर्णमध्यरजतमणिपालिकः चतुर्दिश्यमणिसोपानः खवतारोत्तारः तोरणध्वज छचादिभूषितो नौलोत्पल-पौण्डरौक-शतपत्र-सौगन्धिकादिपुष्यचितो विचित्रशकुनिमत्स्यविचरितः षट्पदोपभोग्यः । तन्मध्ये योजनमानं पद्ममर्धयोजनपृथु दशावगाढं जलाविक्रोशोच्छ्रयं वज्रारिष्टवैर्यमूलकण्डनालं वैडर्यजाम्बूनदबाह्यान्तःपत्रं कनककर्णिक तपनीयकेसरं नानामणिमयपुष्करम् । कर्णिकार्धयोजना तदर्धपृथुः। तदुपरि भवनं विजयावत् । मणिपौठिकायां श्रीदेव्याः शय्या । तदन्येन तल्लक्षणेनामशतेन तदर्धमानेन वृतम्। तथा चेकैकैकचतु * गै. चतुरसः।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy