SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [अ०७। सू० ५।] सप्तमोऽध्यायः । १५१ इहैव चाभिघातवधबन्ध नहस्तपादकर्णनासोत्तिरौष्ठच्छेदनभेदनसर्वस्वहरणवध्ययातानमारणादौन्प्रतिलभते प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति स्तेयाड्युपरमः श्रेयान् ॥ तथाब्रह्मचारी विधमोद्धान्तचित्तः विप्रकीर्णन्द्रियो महान्धो गज व निरङ्कुशः 5 शर्म नो लभते । मोहाभिभूतश्च कार्याकार्यानभिज्ञो न किंचिदकुशलं नारभते । परदाराभिगमनकृतांश्च इहैव वैरानुबन्धलिङ्गच्छेदनवधबन्धनद्रव्यापहारादीप्रतिलभते ऽपायान्प्रेत्य चाशुभां गतिं गर्हितश्च भवतीत्यब्रह्मणो व्युपरमः श्रेयानिति ॥ तथा परिग्रहवान् शकुनिरिव मांसपेशौहस्तो 10 ऽन्येषां क्रव्यादशकुनानामिहैव तस्करादीनां गम्यो भवति । अर्जनरक्षणक्षयकृतांश्च दोषान्प्राप्नोति । न चास्य हप्तिर्भवतीन्धनैरिवाग्नेलेभाभिभूतत्वाच्च कार्याकार्यानपेक्षो भवति । प्रेत्य चाशुभां गतिं प्राप्नोति लुब्धो ऽयमिति च गर्हितो भवतीति परिग्रहाद्युपरमः श्रेयान् ॥ किं चान्यत् दुःखमेव वा ॥५॥ दुःखमेव वा हिंसादिषु भावयेत् ॥ यथा ममाप्रियं दुःखमेवं सर्वसत्त्वानामिति हिंसाया व्युपरमः श्रेयान् ॥ यथा मम मिथ्याभ्याख्यानेनाभ्याख्यातस्य तौवं दुःखं भूतपूर्वं भवति च तथा सर्वसत्त्वानामिति अनृतवचनाड्युपरमः श्रेयान् ॥ यथा 20 ममेष्टद्रव्यवियोगे दुःखं भूतपूर्व भवति च तथा सर्वसत्त्वानामिति * D बन्ध for बन्धन। + K नासो। + S वध्यपान। _$ D adds च । १ कृतान् = जनितान् s.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy