SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ तत्त्वाधिगमसूत्रम् । [अ०१/०५ ।] गमार्थं * न्याम्रो निक्षेप इत्यर्थः । तद्यथा । नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति । नाम संज्ञा कर्म इत्यनर्थान्तरम् । चेतनावतोऽचेतनस्य वा द्रव्यस्य जीव इति नाम क्रियते । स नामजीवः ॥ यः काष्ठपुस्तचित्रकर्माचनिचेपादिषु स्थाप्यते जीव इति म स्थापनाजौवो देवताप्रतिकृतिवदिन्द्रो 5 रुद्रः स्कन्दो विष्णुरिति ॥ द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव! उच्यते । श्रथवा शून्योऽयं भङ्गः । यस्य ह्यजीवस्य सतो भव्यं जीवत्वं `स्यात् म द्रव्यजीवः स्याद?निष्टं चैतत् ॥ भावतो जीवा श्रौपशभिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकभावयुक्ता उप- 10 योगलक्षणा: संसारिलो मुक्ताश्च द्विविधा वच्यन्ते ॥ ॥ एवमजीवादिषु सर्वेष्वनुगन्तव्यम् ॥ पर्यायान्तरेणापि नामद्रव्यं स्थापनाद्रव्यं द्रव्यद्रव्यं भावतोद्रव्यमिति । यस्य जीवस्य * * वा जीवस्य वा नाम क्रियते द्रव्यमिति तन्नामद्रव्यम् । यत्काष्ठपुस्त चित्रकर्माचनिक्षेपादिषु 15 स्थाप्यते द्रव्यमिति तत् स्थापनाद्रव्यं देवताप्रतिकृतिवदिन्द्रो रुद्रः स्कन्दो विष्णुरिति । द्रव्यद्रव्यं नाम #गुणपर्यायवियुक्तं प्रज्ञास्थापितं धर्मादीनामन्यतमत् । केचिदप्याहुर्यद्रव्यतो द्रव्यं + K adds यस्य । || II. 10. * B अधिगमाय । SK omits स्यात् । ** K omits वा । †† Badds सर्व • | Kadd स सदर्थ० । + K द्रव्यजीव for जीव । Kadds अपि । ++ K omits तत् ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy