SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ समाध्यतस्वार्थाधिगमसूत्रेषु २० स्यार्थस्यावग्रह इति, उच्यते, नायं दोषः, यतोऽवग्रहादयः कर्तृसाधनाः तत्र ध्रुताः अवगृह्णातीत्यवग्रहः ईहत इति ईहा अपैतीत्यपायः धारयतीति धारणा, यश्चासौ शानांशोऽवरहातीत्यादिरूपस्तस्यावश्यं कर्मणा भवितव्यम् तच्चेह बहूवादिभेदं सूत्रेण विषयात्मकं भण्यते अतो नास्त्यर्थभेदो बहोरवग्रहः बहुमवगृह्णातीति अनयोः एक एवार्थः, केवलन्तु शब्दभेद उच्यते । स्पर्शनावग्रहस्तावदेवं बहुमवगृह्णाति शय्यायामुपविशन् पुमान् तत्स्थयोषित्पुष्पवस्त्रचन्दनादिस्पर्श बहुं सन्तमेकैकं भेदेनावबुध्यते अयं योषित्स्पर्शोऽयं च तल्लमपुष्पस्पर्शोऽयं च तद्गात्रानुलगचन्दनस्पर्शोऽयं चैतत्परिहितवस्त्रस्पर्शः अयमेतदाबद्धरसनास्पर्श इति अतो बहुलस्पर्शे भिन्नजातीयमवगृहातीति । ननु चावग्रह एक सामयिकः शास्त्रे निरूपितो न चैकास्मिन् समये चैवैकावग्रह एवंविधो युक्तोऽल्पकालत्वादिति, उच्यते सत्यमेवमेतत्, किन्तु अवग्रहो द्विधा नैश्चयिको व्यावहारिकश्च तत्र नैश्चयिको नाम सामान्यपरिच्छेदः स चैक सामयिकः शास्त्रेऽभिहितः ततो नैश्चयिकादनन्तरमीहैवमात्मिका प्रवर्तते किमेष स्पर्श उतास्पर्श इति तस्याश्चानन्तरोऽपायः स्पर्शोऽयमिति अयं चापायः अवग्रह इत्युपचर्यते आगामिनो भेदानङ्गीकृत्य यस्मा देतेन सामान्यमवच्छिद्यते । यतः पुनरेतस्मादीहा प्रवर्तिष्यते कस्यायं स्पर्शः पुनश्चापायो भविष्यत्यस्यायमिति अयमपि चापायः पुनरवग्रह इत्युपचर्यते, अतोऽनन्तरवर्तिनीमीहामपायं चाश्रित्य एवं यावदस्यान्ते निश्चयः उपजातो भवति यत्रापरं विशेषं नाकाक्षतीत्यर्थः अपाय एव भवति न तत्रोपचार इति । अतो य एष औपचारिकोऽवग्रहस्तमङ्गीकृत्य बहु अवगृह्णातीत्येतदुच्यते नत्वेकसमयवर्तिनं नैश्चयिकमिति, एवं बहुविधादिषु सर्वत्रौपचारिकाश्रयणाद्वयाख्येयामिति । सम्प्रति बहिवत्यस्य प्रतिपक्षं कथयतिअल्पमवगृहणातीत्यनेन, यदा तेषामेव योषिदादिस्पर्शानां यं किञ्चिदेकं स्पर्शमवगृह्णात्यन्यान् सतोऽपि क्षयोपशमापकर्षान्न गृह्णाति तदाल्पमेकमवगृह्णातीत्युच्यते । बहुविधमवगृह्णातीति, बढ्यो विधा यस्य स बहुविधस्तमवगृह्णाति, बहुविधो नाम स एव योषिदादिस्पर्श एकैकः शीतस्निग्धमृदुकठिनादिरूपो यदाऽवगृह्यते तदा बहुविधं गुणैर्भिन्नं स्पर्श परिच्छिन्दत् तज्ज्ञानं बहुविधमवगृह्णातीत्युच्यते, यदा तु योषिदादिस्पर्शमेवैकगुणसमन्वितं शीतोऽयामिति वा स्निग्धोऽयमिति वा मृदुरयमिति वेत्येवमवच्छिनत्ति तदा एकविधमवगृह्णातीत्युच्यते ।। क्षिपमवगृह्णाति । चिरेणावगृह्णाति । निश्रितमवगृह्णाति । अनिश्रितमवगृह्णाति । असन्दिग्धमगृह्णाति सन्दिग्धमवगृहणाति
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy