________________
ॐ नमः सर्वज्ञाय श्रीमत्--उमास्वातिवाचकप्रवरप्रणीतानि सभाष्यतत्त्वार्थाधिगमसूत्राणि।
सम्बन्धकारिकाः सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चानोति । दुःखनिमित्तमपीदं तेन सुलब्धं भवति जन्म ॥१॥ जन्मनि कर्मक्लेशैरनुबद्धेऽस्मिंस्तथा प्रयतितव्यम् । कर्मक्लेशाभावो यथा भवत्येष परमार्थः ॥२॥ परमार्थालाभे वा दोषेष्वारम्भकस्वभावेषु । कुशलानुबन्धमेव स्यादनवयं यथा कर्म ॥ ३ ॥ कर्माहितमिह चामुत्र चाधमतमो नरः समारभते । इह फलमेव त्वधमो विमध्यमस्तूभयफलार्थम् ॥ ४ ॥ परलोकहितायैव प्रवर्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते विशिष्टमतिरुत्तमः पुरुषः ॥ ५॥ यस्तु कृतार्थोऽप्युत्तममवाप्य धर्म परेभ्य उपदिशति । नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥ ६ ॥ तस्मादहति पूजामहन्नेवोत्तमोत्तमो लोके । देवर्षिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसत्त्वानाम् ॥ ७॥ अभ्यर्चनादहतां मनःप्रसादस्ततः समाधिश्च । तस्मादपि निःश्रेयसमतो हि तत्पूजनं न्याय्यम् ॥८॥