SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ अथ नवमोऽध्यायः। उक्तो बन्धः । संवरं वक्ष्यामः आस्रवनिरोधः संवरः ॥ १॥ यथोक्तस्य काययोगादेर्द्विचत्वारिंशद्विधस्यास्रवस्य निरोधः संवरः॥१॥ स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥२॥ स एष संवर एभिर्गुप्त्यादिभिरभ्युपायैर्भवति ॥२॥ किं चान्यत् तपसा निर्जरा च ॥३॥ तपो द्वादशविधं वक्ष्यते । तेन संवरो भवति निर्जरा च ।३। अत्राह । उक्तं भवता गुप्त्यादिभिरभ्युपायैः संवरो भवतीति । तत्र के गुप्त्यादय इति । अत्रोच्यते सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ सम्यगिति विधानतो ज्ञात्वाभ्युपेत्य सम्यग्दर्शनपूर्वकं त्रिविधस्य योगस्य निग्रहो गुप्तिः कायगुप्तिर्वाग्गुप्तिर्मनोगुप्तिरिति । तत्र शयनासनादाननिक्षेपस्थानचंक्रमणेषु कायचेष्टानियमः कायगुप्तिः । याचनपृच्छनपृष्टव्याकरणेषु वानियमो मौनमेव वा वाग्गुप्तिः । सावद्यसंकल्पनिरोधः कुशलसंकल्पः कुशलाकुशलसंकल्पनिरोध एव वा मनोगुप्तिरिति ॥ ४॥ ईर्याभाषैषणादाननिक्षेपोत्सर्गाः सुमितयः ॥ ५॥ सम्यगीर्या सम्यग्भाषा सम्यगेषणा सम्यगादाननिक्षेपौ स. १ अ. ९ सू. १९, २०.
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy