________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १५२ शेषमनभिगृहीतम् ॥ यथोक्ताया विरतर्विपरीताऽविरतिः॥ प्रमादः स्मृत्यनवस्थानं कुशलेष्वनादरो योगदुष्पणिधानं चैष प्रमादः ॥ कषाया मोहनीये वक्ष्यन्ते योगस्त्रिविधः पूर्वोक्तः ॥ एषां मिथ्यादर्शनादीनां बन्धहेतूनां पूर्वस्मिन्पूर्वस्मिन्सति नियतमुत्तरेषां भावः । उत्तरोत्तरभावे तु पूर्वेषामनियम इति ॥ १॥ सकषायत्वाजीवः कर्मणो योग्यान्पुद्गलानादत्ते ॥ २ ॥
सकषायत्वाजीवः कर्मणो योग्यान् पुद्गलान् आदत्ते । कर्मयोग्यानिति अष्टविधे पुद्गलग्रहणकर्मशरीरग्रहणयोग्यानि । नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यते ॥ २॥
स बन्धः ॥ ३॥ स एष कर्मशरीरपुद्गलग्रहणकृतो बन्धो भवति ॥ ३ ॥ स पुनश्चतुर्विधः। प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ॥ ४॥ प्रकृतिबन्धः स्थितिबन्धः अनुभावबन्धः प्रदेशबन्धः इति॥४॥ तत्र--
१ अ. ८ सू. १०. २ अ. ६ सू. १. ३ अ. ८ सू. २५.
४ बन्धः-जीवस्य कर्मपुद्गलसंश्लेषः स चतुर्धा १ स्थित्यनुभावप्रदेशबन्धानां यः समुदायः स प्रकृतिबन्धः २ अध्यवसायविशेषगृहीतस्य कर्मदलीकस्य यत् स्थितिकालनियमनं स स्थितिबन्धः ३ कर्मपुद्गलानामेव शुभोऽशुभो वा घात्यघाती वा यो रसः सोऽनुभावबन्धो रसबन्ध इत्यर्थः ४ कर्मपुद्गलानामेव यद्ग्रहणं स्थितिरसनिरपेक्षं दलिकसंख्याप्राधान्येनैव करोति स प्रदेशबन्धः उक्तं च
'प्रकृतिः समुदायः स्यात् स्थितिः कालावधारणम् । अनुभावो रसः प्रोक्तः प्रदेशो दलसञ्चयः ॥१॥' इति ।