SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १२७ षष्ठोऽध्यायः। क्रियाः । तत्रेमे क्रियाप्रत्यया यथासंख्यं प्रतेतव्याः । तद्यथासम्यक्त्वमिथ्यात्वप्रयोगसमादान-पथाः कायाधिकरणप्रदोषपरितोपनप्राणांतिपाताः दर्शनस्पर्शनप्रत्ययसमन्तापातानाभोगाः स्वहस्त १ जिनसिद्धगुर्वादीनां । पूजानमस्कारवस्त्रपात्रादिप्रदानरूपवैयावृत्याभिव्यङ्ग्यत्वे सति सम्यक्त्वप्रवर्धकत्वं । सम्यक्त्वक्रियाया लक्षणम् । २ तद्विपरीतप्रवृत्तिरूपत्वं मिथ्याक्रियालक्षणम् । ३ गमनागमनादिचेष्टाविषयकप्रवृत्तिनिमित्तकत्वं प्रयोगक्रियाया लक्षणम् । ४ योगत्रयकृतपुद्गलादानरूपत्वं समादानक्रियाया लक्षणम् । अथवा योगनिवृत्तिसमर्थपुद्गलग्रहणरूपत्वं तत्र धावनवलानादिरूपः कायव्यापारः । पुरुषानृतादिरूपो वाग्व्यापारः । आभिद्रोहादिरूपो मनोव्यापारः। ५ ईयापथकर्मकारणरूपत्वमीर्यापथिकक्रियाया लक्षणम् । ६ कायचेष्टाविशेषरूपत्वं कायिकक्रियाया लक्षणम् । ७ खड्गादिनिवर्तनरूपत्वमधिकरणाक्रियाया लक्षणम् । ८ मात्सर्यकरणरूपत्वं प्राद्वेषिकाक्रयाया लक्षणम् । ९ दुःखोत्पादनरूपत्वं परितापन्याः क्रियाया लक्षणम् । १० प्रमत्तयोगात्प्राणातिपातरूपत्वं प्राणातिपातक्रियाया लक्षणम् । ११ अश्वादिचित्रकर्मक्रियादर्शनार्थ गमनरूपत्वं दार्टिक्याः क्रियाया लक्षणम् । १२ रागादिना जीवादीनां स्पृशतः पृच्छतो या क्रिया तत्करणरूपत्वं स्पर्शनप्रत्यायिकक्रियाया लक्षणम् । १३ जीवादीनाश्रित्य या क्रिया तत्करणरूपत्वं प्रतीत्यक्रियाया लक्षणम् । १४ हर्षवशादश्वरथादिकं श्लाघयतो या क्रिया तत्करणरूपत्वं सामन्तोपनिपातिक्याः क्रियाया लक्षणम् । १५ अदृष्ट्वाऽप्रमृज्य च भूमौ वस्त्रपात्राद्यादाननिक्षेपादिरूपत्वं अथवा उपयोगराहित्येन क्रियायां प्रवृत्तिकरणरूपत्वं अनाभगिकक्रियाया लक्षणम् । १६ स्वहस्तगृहीतजीवादिना जीवं मारयतो या क्रिया तत्करणरूपत्वं स्वाहस्तिक्याः क्रियाया लक्षणम्
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy