________________
पञ्चमोऽध्यायः। इति ॥ बन्धस्त्रिविधः । प्रयोगबन्धो वित्रसाबन्धो मिश्र इति । स्निग्धरूक्षत्वाद्भवतीति वक्ष्यते ॥ सौम्यं द्विविधमन्त्यमापेक्षिक च । अन्त्यं परमाणुष्वेव । आपेक्षिकं व्यगुकादिषु संघातपरिणामापेक्ष भवति । तद्यथा-आमलकाद्धदरमिति ॥ स्थौल्यमपि द्विविधमन्त्यमापेक्षिकं च संघातपरिणामापेक्षमेव भवति । तत्रान्त्यं सर्वलोकव्यापिनि महास्कन्धे भवति । आपेक्षिकं बदरादिभ्य आमलकादि विति ॥ संस्थानमनेकविधम् । दीर्घहस्वाद्यनित्थंत्वपर्यन्तम् । भेदः पञ्चविधः । औत्कारिकः चौर्णिकः खण्डः प्रतर अनुतंट इति ।। तमश्छायातपोद्योताश्च परिणामजाः ॥ सर्व एवैते स्पर्शादयः पुद्गलेवेव भवन्तीति । अतः पुद्गलास्तद्वन्तः ॥
१ प्रयोगो जीवव्यापारः । तेन घटितो बन्धः प्रायोगिकः औदारिकादिशरीरजतुकाष्ठादिविषयः ।
२ विस्रसा स्वभावः प्रयोगनिरपेक्षो विस्रसाबन्धः । स द्विधा आदिमदनादिमद्भेदात् । तत्र आदिमान विद्युदादिर्विषमगुणविशेषपरिणतपरमाणुप्रभवः स्कन्धपरिणामः । अनादिरपि धर्माधर्माकाशविषयः ।
___३ प्रयोगविस्रसाभ्यां जीवप्रयोगसहचरिताचेतनद्रव्यपरिणतिलक्षणः स्तंभकुम्मादिः।
४ अ. ५ सू. ३२.
५ वृत्तादिना निरूपयितुं यन्न शक्यं तदनित्थम् । तद्भावोऽनित्थन्त्वम् । तत्पर्यन्तमनेकधा संस्थानम् ।
६ समुत्कीर्यमाणदारुप्रस्थकभेरीबुन्दाघर्षादिविषयः औत्कारिकः । ७ अवयवशश्चूर्णनं चौर्णिकः । क्षिप्तपिष्टमुष्टिवत् । ८ खण्डशो विशरणं खण्डभेदः । क्षिप्तमृत्पिण्डवत् । ९ अभ्रपटलभूर्जपत्रादिषु बहुतिथपुटोच्छोटनलक्षणः प्रतरभेदः । १० वंशेक्षुयष्टित्वगुत्पाटनम्- अनुतटः ।