SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्त्वार्थाधिगमसूत्रेषु अपरा पल्योपममधिकं च ॥ ३९ ॥ सौधर्मादिष्वेव यथाक्रममपरा स्थितिः पल्योपममधिकं च । अपरा जघन्या निकृष्टेत्यर्थः । परा प्रकृष्टा उत्कृष्टेत्यनर्थान्तरम् । तत्र सौधर्मेऽपरा स्थितिः पल्योपममैशाने पल्योपममधिकं च ॥ ३९ ॥ सागरोपमे ॥ ४० ॥ सनत्कुमारेऽपरा स्थितिर्दै सागरोपमे ॥ ४० ॥ अधिके च ॥४१॥ माहेन्द्रे जघन्या स्थितिराधिके द्वे सागरोपमे ॥४१॥ परतः परतः पूर्वा पूर्वानन्तरा ॥ ४२ ॥ माहेन्द्रात्परतः पूर्वा परानन्तरा जघन्या स्थितिर्भवति। तद्यथामाहेन्द्र परा स्थितिर्विशेषाधिकानि सप्त सागरोपमानि सा ब्रह्मलोके जघन्या भवति । ब्रह्मलोके दश सागरोपमानि परा स्थितिः सा लान्तके जघन्या। एवमासर्वार्थसिद्धादिति । (विजयादिषु चतुर्यु परा स्थितिस्त्रयस्त्रिंशत्सागरोपमानि सा त्वजघन्योत्कृष्टा सर्वार्थसिद्ध इति ) ॥४२॥ नारकाणां च द्वितीयादिषु ॥ ४३ ॥ नारकाणां च द्वितीयादिषु भूमिषु पूर्वा पूर्वा परा स्थितिरन्तरा परतः परतोऽपरा भवति। तद्यथा-- रत्नप्रभायां नारकाणामेकं सागरोपमं परा स्थितिः सा जघन्या शर्करामभायाम् । त्रीणि सागरोपमानि परा स्थितिः शर्कराप्रभायां सा जघन्या वालुकाप्रभायामिति । एवं सर्वासु । तमःप्रभायां द्वाविंशतिः सागरोपमानि परा स्थितिः सा जघन्या महातमःप्रभायामिति ॥४३॥ १ अर्थासंगतः पाठः।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy