SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १०१ चतुर्थोऽध्यायः। सारस्वतादित्यवह्नयरुणगर्दतोयतुषिताव्याबाधमरुतोऽ रिष्ठाच ॥ २६ ॥ एते सारस्वतादयोऽष्टविधा देवा ब्रह्मलोकस्य पूर्वोत्तरादिषु दिक्षु प्रदक्षिणं भवन्ति यथासङ्ख्यम् । तद्यथा-पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्याः, इत्येवं शेषाः ॥ २६ ॥ विजयादिषु विचरमाः ॥२७॥ विजयादिष्वनुत्तरेषु विमानेषु देवा द्विचरमा भवन्ति । द्विचरमा इति ततश्च्युताः परं द्विर्जनित्वा सिध्यन्तीति । सकृत्सर्वार्थसिद्धूमहाविमानवासिनः । शेषास्तु भजनीयाः ॥ २७ ॥ __ अत्राह । उक्तं भवता जीवस्यौदायकेषु भावेषु तिर्यग्योनिर्ग: तिरिति तथा स्थितौ 'तिर्यग्योनीनांच' इति। आस्रवेषु च माया तैर्यग्योनस्य' इति । तत्के तिर्यग्योनय इति। अत्रोच्यते १ "नवदेवनिकाया पत्नत्ता तंजहा-१ सारस्सय २माइच्चा ३ वही ४ वरुणा य ५ गद्दतोया य। ६ तुसिया ७ अव्वाबाहा ८ अग्गिच्चा चेव ९ रिहा य ॥' ॥१॥” इति स्था. ९ ठा. ६८४ । (स्था. ८ ठा. तु 'रिठा' इति नवमं नास्ति) संग्रहिण्यान्तर्वांच्यादिषु लोकान्तिकदेवानां नव निकाया उत्तमचरित्रे दश निकायाः कथितास्तत्र मतान्तरमिति शेयम् । २ अत्र दिग्ग्रहणं सामान्येन दिग्विदिक् प्रतिपत्त्यर्थम् । ब्रह्मलोकाधोव्यवस्थितरिष्ठविमानप्रस्तारवर्तिन्योऽक्षपाटकसंस्थिता अरुणवरसागरे समुद्भूता अतिबहलतमःकायप्रभवाः कृष्णराज्योऽष्टौ भवन्ति । यासां मध्येन प्रयान देवोऽप्येकः संक्षोभमापद्येतोते । तत्र द्वयोर्द्वयोः कष्णराज्योर्मध्यभाग एते भवन्ति । ३ सर्वार्थसिद्धविमानवासिनस्तु सकृज्जनित्वा मनुष्येषु सिद्धिमनुगच्छन्ति मुक्तिमासादयन्ति, सर्वे चानुत्तरोपपातिनः किल देवाः प्रतनुकर्माणो भवन्तीति । ४ अ. २ सू. ६. ५ अ. ३ सू. १८. ६ अ. ६ सू. १७.
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy