________________
७१
तृतीयोऽध्यायः ।
मुत्पद्यन्ते । सरीसृपा द्वयोरादितः प्रथमद्वितीययोः एवं पक्षिणस्तिसृषु । सिंहाश्चतसृषु । उरगाः पञ्चसु । स्त्रियः षट्सु | मत्स्यमनुष्याः सप्तस्विति । न तु देवा नारका वा नरकेषूपपत्तिं प्राप्नुवन्ति । न हि तेषां बद्द्वारम्भपरिग्रहादयो नरकगतिनिर्वर्तका हेतवः सन्ति । नायुद्वर्त्य नारका देवेषूत्पद्यन्ते । न ह्येषां सरागसंयमादयो देवगतिनिर्वर्तका हेतवः सन्ति । उद्द्वर्तितास्तु तिर्यग्योनौ मनुष्येषु वोत्पद्यन्ते । मानुषत्वं प्राप्य केचित्तीर्थकरत्वमपि प्राप्नुयुरादितस्तिसृभ्यः निर्वाणं चतसृभ्यः संयमं पञ्चभ्यः संयमासंयमं षड्भ्यः सम्यग्दर्शनं सप्तभ्योऽपीति ॥
द्वीपसमुद्रपर्वत हद तडागसरांसि ग्रामनगरपत्तनादयो विनिवेशा बांदरी वनस्पतिकाय वृक्षतृणगुल्मादिः द्वीन्द्रियादयस्तिर्यग्योनिजा मनुष्या देवाश्चतुर्निकाया अपि न सन्ति । अन्यत्र समुद्वातोपपातविक्रियासाङ्गतिकनरॅकपालेभ्यः । उपपाततस्तु देवा रत्नप्रभायामेव सन्ति नान्यासु । गतिस्तृतीयां यावत् ॥
यच्च वाव आपो धारयन्ति न च विष्वग्गच्छन्त्यापश्च पृथिवीं धारयन्ति न च प्रस्पन्दन्ते पृथिव्यश्वाप्सु विलयं न गच्छन्ति तत्तस्यानादिपारिणामिकस्य नित्यसन्ततेर्लोक विनिवेशस्य लोकस्थितिरेव हेतुर्भवति ॥
अत्राह । उक्तं भवता लोकाकाशेऽवगाहः । तदनन्तरं ऊर्ध्व गच्छत्यालोकान्तादिति । तत्र लोकः कः कतिविधो वा किंसंस्थितो वेति । अत्रोच्यते ।।
१ बादरः - स्थूलः ।
२ अस्मन्मुद्राषयिष्यमाणस्याद्वादमञ्जर्यो नवम श्लोकस्य चरमप्रघट्टके टिप्पन्याम् |
३ सांगतिकं - पूर्वजन्ममित्रभूतम् ।
४ नरकपालाः - महापापिनः ।