SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६२ ३-११ पञ्चाष्टाविंशान्येकादश च भागाः साधिकाः । भरतक्षेत्रमध्ये पूर्वापरायत उभयतः समुद्रमवगाढो वैताढयपर्वतः षड् योजनानि सक्रोशानि धरणिमवगाढः पञ्चाशद्विस्तरतः पञ्चविंशत्युच्छ्रितः विदेहेषु निषधस्योत्तरतो मन्दरस्य दक्षिणतः काञ्चनपर्वतशतेन चित्रकूटेन विचित्रकूटेन चोपशोभिता देवकुरवः । विष्कम्भेणैकादश योजनसहस्राण्यष्टौ च शतानि द्विचत्वारिंशानि द्वौ च भागौ | एवमेवोत्तरेणोत्तराः कुरवश्चित्रकूटविचित्रकूटहीना द्वाभ्यां च काञ्चनाभ्यामेव यमकपर्वताभ्यां विराजिताः ॥ विदेहा मन्दरदेवकुरूत्तरकुरुभिर्विभक्ताः क्षेत्रान्तरवद्भवन्ति पूर्वे चापरे च । पूर्वेषु षोडश चक्रवर्तिविजया नदीपर्वतविभक्ताः 'परस्परागमाः, अपरेऽप्येवंलक्षणाः षोडशैव ॥ तुल्यायामविष्कम्भावगाहोच्छ्रायी दक्षिणोत्तरौ वैताढ्यौ, तथा हिमवच्छिखरिणौ महाहिमवद्रुक्मिणी निषधनीलौ चेति ॥ क्षुद्रमन्दरास्तु चत्वारोऽपि धातकीखण्डकपुष्करार्धका - महामन्दरात्पञ्चदशभिर्योजनसहस्रैर्हीनोच्छ्रायाः । षड्भिर्योजनशतैर्धरणितले हीनविष्कम्भाः । तेषां प्रथमं काण्डं महामन्दरतुल्यम् । द्वितीयं सप्तभिर्हीनम् । तृतीयमष्टाभिः । भद्रशालनन्दनवने महामन्दरवत् । ततोऽर्धषट्पञ्चाशद्योजनसहस्राणि सौमनसं पञ्चशतं विस्तृतम् । ततोऽष्टाविंशतिसहस्राणि चतुर्नवतिचतुः शतविस्तृतमेव पाण्डुकं भवति । उपरि चाधश्च विष्कम्भोऽवगाहश्च तुल्यो महामन्दरेण । चूलिका चेति ॥ विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः । स विष्कम्भपादाभ्यस्तो गणितम् । इच्छावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्य चतुर्गुणस्य मूलं ज्या एकोनविंशतिलक्षा जायन्ते । अयं प्रकार इह अवगाह इति भण्यते । ततः इच्छावगाहो यस्य कस्यचित्क्षेत्रस्य विष्कम्भावगाहः प्रवेदनीयः स च कलागणनया भरतस्य दशसहस्री भवति । अनेन इच्छावगाहेन कृत्वा ऊनो हीनश्चासाववगाहः प्रागुक्तस्वरूपश्च इच्छावगाहोनावगाहः १८९०००० तेन अभ्यस्तो गुणित इच्छावगाहोनावगाहाभ्यस्तस्तथाभूतस्य विष्कम्भस्य भरतादिविस्तारस्य १८९०००००००० ततश्चतुर्गुणस्य ७५६०००००००० यत् किल मूलं समायाति २७४९५५ अथ योजनज्ञानाय एकोनविंशतिभागो देयः १४४७१।६ इयं भरतज्या । १. परस्परेणागम्याः क्षेत्रविशेषा इत्यर्थः । २. कृतेः = वर्गस्य ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy