________________
-----
२-१२
समाना इत्यादिग्रहणेन सूचिताः । ये जीवस्यैव वैशेषिकास्ते स्वशब्देनोक्ता इति । 'एते पञ्च भावास्त्रिपञ्चाशद्भेदा जीवस्य स्वतत्त्वं भवन्ति । अस्तित्वादयश्च ।। ७ ॥ किं चान्यत्
उपयोगो लक्षणम् ॥८॥ उपयोगो लक्षणं जीवस्य भवति ॥ ८॥
स द्विविधोऽष्टचतुर्भेदः ॥ ९ ॥ स उपयोगो द्विविधः साकारोऽनाकारश्च । ज्ञानोपयोगो दर्शनोपयोगश्चेत्यर्थः । स पुनर्यथासङ्ग्यमष्टचतुर्भेदो भवति । ज्ञानोपयोगोऽष्टविधः । तद्यथा । मतिज्ञानोपयोगः श्रुतज्ञानोपयोगोऽवधिज्ञानोपयोगो मनःपर्यायज्ञानोपयोगः केवलज्ञानोपयोगो मत्यज्ञानोपयोगः श्रुताज्ञानोपयोगो विभङ्गज्ञानोपयोग इति । दर्शनोपयोगश्चतुर्भेदः । तद्यथा । चक्षुर्दर्शनोपयोगोऽचक्षुर्दर्शनोपयोगोऽवधिदर्शनोपयोगः केवलदर्शनोपयोग इति । ९ ॥
संसारिणो मुक्ताश्च ॥ १० ॥ ते जीवाः समासतो द्विविधा भवन्ति । संसारिणो मुक्ताश्च ॥१०॥ किं चान्यत् -
समनस्कामनस्काः ॥११॥ समासतस्ते एव जीवा द्विविधा भवन्ति समनस्काश्च अमनस्काश्च । तान्पुरस्ताद्वक्ष्यामः ॥ ११ ॥
संसारिणस्त्रसस्थावराः ॥ १२ ॥
१ एत इति प्रतिपदं य उद्दिष्टा (२११) औपशमिकादयः पञ्चैवान्यनाधिका भावाः
पर्यायान्तराण्यात्मनस्त्रिपंचाशद्देदा भवन्ति । आत्मनः स्वतत्त्वं द्विनवाष्टादशादिसूत्रेण (२।२) संख्या प्राक् नियता सैवानेनोपसंहृतेति । एते च विकल्पा जीवानां यथासंभवमायोज्या न सर्वे सर्वेषामिति । क्षायिकपारिणामिकावेव सिद्धानाम् । औपशमिकवर्ध्या नारकतिर्यग्योनीनाम् । देवमनुष्याणां पञ्चापि । न त्वौपशमिकक्षायिके
सम्यक्त्वचारित्रे वा युगपद्भवत इति । २ मनसा सहितं समनस्कम् (२-२५) ।