________________
....-२.६ ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः
सम्यक्त्वचारित्रसंयमासंयमाश्च ॥५॥ ज्ञानं चतुर्भेद-मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यायज्ञानमिति । अज्ञानं त्रिभेदं-मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानमिति । दर्शनं त्रिभेदं 'चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनमिति । लब्धयः पञ्चविधा-दानलब्धिलाभलब्धिर्भोगलब्धिरुपभोगलब्धिर्वीर्यलब्धिरिति । सम्यक्त्वं चारित्रं संयमासंयम इत्येतेऽष्टादश क्षायौपशमिका भावा भवन्तीति ॥५॥
गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धत्व
लेश्याश्चतुश्चतुस्त्येकैकैकैकषट्भेदाः ॥६॥ गतिश्चतुर्भेदा नारकतैर्यग्योनमनुष्यदेवा इति । कषायश्चतुर्भेदः क्रोधी मानी मायी लोभीति । “लिङ्गं त्रिभेदं स्त्रीपुमानपुंसकमिति । मिथ्या दर्शनमेकभेदं मिथ्यादृष्टिरिति । अज्ञानमेकभेदमज्ञानीति । असंयतत्वमेकभेदमसंयतोऽविरत इति । 'असिद्धत्वमेकभेदमसिद्ध इति । एकभेदमेकविधमिति । 'लेश्याः षट्भेदाः १ चक्षुषा दर्शनमुपलब्धिः सामान्यार्थग्रहणं, स्कन्धावारोपयोगवत्
तदर्हजातबालदारकनयनोपलब्धिवद्वा, व्युत्पन्नस्यापि अचक्षुर्दर्शनं शेषेन्द्रियैः श्रोत्रादिभिः सामान्यार्थग्रहणम् । अवधिदृगावरणक्षयोपशमनाद्विशेषग्रहणविमुखमवधिदर्शनमित्युच्यते । नियमतस्तु तत्सम्यग्दृष्टिस्वामिकम् । एवमेतत्त्रिविधमपि दर्शनावरणकर्मणः (८-८)
क्षयोपशमादुपजायत इति । २ अ. ६ सू. २० ३ गतिनामकर्मोदयाद्विवक्षितभवाद्भवान्तरगमनयोग्यत्वं गतेर्लक्षणम् । ४ कषः संसारस्तस्याय उपादानकारणविशेषः कषायः । अथवा कष्यन्ते पीड्यन्ते प्राणिनः
परस्परं यस्मिन्नसौ कषः संसारः । तमयन्ते प्राप्नुवन्ति जन्तवोऽनेनेति कषायः
क्रोधमानमायालोभरूपः । संसारप्राप्तिनिमित्तरूपत्वं कषायस्य लक्षणम् । ५ वेदोदयजन्यत्वे सति मैथुनेच्छारूपत्वं लिङ्गस्य लक्षणम् । ६ अतत्त्वे तत्त्वबुद्धिरूपत्वम् । ७ मिथ्यात्वमोहोदये सति अतत्त्वज्ञानरूपत्वं अज्ञानस्य लक्षणम् । ८ कर्मोदयप्रभवत्वमसिद्धस्य लक्षणम् ।
(१)कृष्णद्रव्यसाचिव्याद्, मूलाद् वृक्षोन्मूलनपरिणामतुल्यरूपत्वं कृष्णलेश्याया लक्षणम् । (२) नीलद्रव्यसाचिव्यात्फलादनेच्छया महाशाखापातनपरिणामतुल्यपरिणामरूपत्वं नीललेश्यालक्षणम् । (३) कापोतद्रव्यसाचिव्यात्फलादनेच्छया प्रशाखापातनपरिणाम