SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् मोहादीनि निहत्याशुभानि चत्वारि कर्माणि ॥१७॥ केवलमधिगम्य विभुः स्वयमेव ज्ञानदर्शनमनन्तम् । लोकहिताय कृतार्थोऽपि देशयामास तीर्थमिदम् ॥१८॥ द्विविधमनेकद्वादशविधं महाविषयममित गमयुक्तम् । संसारार्णवपारगमनाय दुःखक्षयायालम् ॥१९॥ ग्रन्थार्थवचनपटुभिः प्रयत्नवद्भिरपि वादिभिर्निपुणैः । अनभिभवनीयमन्यैर्भास्कर इव सर्वतेजोभिः ॥२०॥ कृत्वा त्रिकरण शुद्धं तस्मै परमर्षये नमस्कारम् । पूज्यतमाय भगवते वीराय विलीनमोहाय ॥२१॥ तत्त्वार्थाधिगमाख्यं बह्वर्थं संग्रहं लघुग्रन्थम् । वक्ष्यामि शिष्यहितमिममर्हद्वचनैकदेशस्य ॥२२॥ महतोऽतिमहाविषयस्य दुर्गमग्रन्थभाष्यपारस्य । कः शक्तः 'प्रत्यासं जिनवचनमहोदधेः कर्तुम् ॥२३॥ शिरसा गिरि बिभित्सेदुचिक्षिप्सेच स क्षितिं दोाम् । प्रतितीपेच समुद्र मित्सेच पुनः कुशाग्रेण ॥२४॥ व्योम्नीन्दु चिक्रमिषेन्मेरुगिरि पाणिना चिकम्पयिषेत् । गत्यानिलं जिगीषेचरमसमुद्रं पिपासेच ॥२५॥ खद्योतकप्रभाभिः सोऽभिबुभूषेच्च भास्करं मोहात् । योऽतिमहाग्रन्थार्थं जिनवचनं संजिघृक्षेत ॥२६॥ १ मोहादयः-मोहज्ञानदर्शनावरणान्तरायाः । २ तीर्थ-वर्तमानप्रवचनरूपम् । ३ अमिता असंख्या गमा मन्थानो नया वक्ष्यमाणास्तैर्युक्तम् । ४ कायो वाक् मनश्चेति त्रीणि करणानि तैः शुद्धमकलङ्क, शुद्धानि वा त्रीणि करणान्यस्मिन्निति त्रिकरणशुद्धम् । शारजग्धादिज्ञापकात्तु निष्ठापरनिपातः । ५ प्रत्यासः-संग्रहः । ६ मातुं गणयितुमिच्छेत् । ७ जिनवचनसंग्रहं कर्तुमिच्छेत् ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy