SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् १५५ २ प्रत्युत्पन्नभावप्रज्ञापनीयस्यालिङ्गः सिध्यति । पूर्वभावप्रज्ञापनीयस्य भावलिङ्गं प्रति स्वलिङ्गे सिध्यति । द्रव्यलिङ्गं त्रिविधं स्वलिङ्गमन्यलिङ्ग' गृहलिङ्गमिति, तत्प्रति भाज्यम् । सर्वस्तु भावलिङ्गं प्राप्तः सिध्यति ।। चारित्रम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोऽचारित्री सिध्यति । पूर्वभावप्रज्ञापनीयो द्विविधः - अनन्तरपश्चात्कृतिकश्च परम्परपश्चात्कृतिकश्च । अनन्तरपश्चात्कृतिकस्य यथाख्यातसंयतः सिध्यति । परम्परपश्चात्कृतिकस्य व्यञ्जितेऽव्यञ्जिते च अव्यञ्जिते त्रिचारित्रपश्चात्कृतश्चतुश्चारित्रपश्चात्कृतः पञ्चचारित्रपश्चात्कृतश्च । व्यञ्जिते सामायिकसूक्ष्मसांपरायिकयथा ख्यातपश्चात्कृतसिद्धाः छेदोपस्थाप्यसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः सामायिकच्छेदोछेदोपस्थाप्यपरिहारविशुद्धि सामायिकच्छेदोपस्थाप्यपरिहार पस्थाप्यसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः सूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः विशुद्धिसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः ।। प्रत्येकबुद्धबोधितः । अस्य व्याख्याविकल्पश्चतुर्विधः । तद्यथा । । अस्ति 'स्वयंबुद्धसिद्धः । स द्विविधः - अर्हश्च तीर्थकर : " प्रत्येकबुद्धसिद्धश्च । । बु ँद्धबोधितसिद्धः त्रिचतुर्थी विकल्पः, परबोधकसिद्धाः ‘स्वेष्टकारिसिद्धाः ।। ज्ञानम् । अत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य' केवली सिध्ययति । पूर्वभावप्रज्ञापनीयो द्विविधः अनन्तरपश्चात्कृतिकश्च परम्परपश्चात्कृतिकश्च १. भौतपरिव्राजकादिवेषः । २. गृहे लिंगं दीर्घकेशकच्छबन्धादि । ३. कदाचित्सलिंगः कदाचिदलिंग इति । ४. समस्तचारित्रमोहस्योपशमक्षयान्यतररूपत्वे यथाख्यातचारित्रस्य लक्षणम् । ५. स्वयमेव बुद्धो नान्येन बोधितः । ६. प्रत्येकमेकमात्मानं प्रति सति केनचिन्निमित्तेन शुद्धात्मस्वभावावस्थानापेक्षारूपत्वं संजातिस्मरणाद्वल्कलचीरीप्रभृतयः करकण्ड्वादयश्च प्रत्येकबुद्धाः । ७. बुद्धेन ज्ञातसिद्धान्तेन विदितसंस्कारस्वभावेन बोधितो बुद्धबोधितः परबोधितः । ८. स्वस्मै इष्टं हितं तत्करणशीलः स्वेष्टकारी न परस्मै उपदिशति किंचित् ॥ एते चत्वारोऽपि विकल्पद्वयमनुप्रविशन्ति । ९. तृतीयार्थे प्रत्युत्पन्नभावप्रज्ञापनीयेन ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy