SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १४ उपकारस्मरणञ्चात्र भवति भवोद्धारकानां करूणापूर्णानामनन्तोपकर्तॄणां सुविहितसार्वभौमानां सुविशालगच्छाधिनायकानां सूरिकोटीराणां पूज्यामाचार्य भगवतां श्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, तत्स्वर्गवासे चास्मदीयवात्सल्यतृषां मेघधाराभिरिव संतोषयतां ज्योर्तिविद्यावाचस्पतीनां सुविशालगच्छाधिनाथानां पूज्यानामाचार्यभगवतां श्रीमद्विजयमहोदयसूरीश्वराणाम्, प्रभावकानामध्यात्मतत्वविशारदानां पूज्यानां मुनिवराणां श्रीमत्कीर्तियशविजयगणिवराणाम्, अस्मद्ज्ञानविवर्धनैकचिन्तचित्तानां बहुश्रुतानां पूज्यानां मुनिवराणां श्रीमत्संवेगरतिविजयानामस्मत्पितृमुनिवराणाम्, वैदुष्यमूर्तीनां पूज्यानां मुनिवराणां श्रीमद्वैराग्यरतिविजयानामस्मद्बन्धुमुनिवराणाम् । प्रवचन एतद्ग्रन्थाध्ययनेन महानुभावा बहुविभवा अपि भवाऽविभावितहृदयाः, स्वजनादिसंयोगानुबद्धा अपि भववियोगानुबद्धचेतसः, देहभावविवशा अपि विदेहभावलाभावेशपरवशाः - स्मरामि परमपदमनिशम्, हरामि भवगदं सावेशम्, धारयामि हृदये श्रमणमुखविनिर्यदमृतम्, स्फारयामि अध्यात्मसान्द्रं सुकृतम्, त्यजामि दुःस्थितं भवरागम्, भजामि भगवन्तं विगतरागम्, प्रथयामि प्रीतिं प्रशस्तेषु, भीतिमप्रशस्तेषु, श्लथयामि पोषणमप्रशस्तस्य, शोषणं च प्रशस्तस्य इत्यादिभावनाभावितान्तःकरणाः, विधाय प्रमादविच्छेदम्, निधाय हृदि भवनिर्वेदम्, कदा भवेयमहं श्रमणधर्माराधनपरो निर्ग्रन्थो निर्बन्धो निस्सङ्गो निर्ममश्चेति विभावयन्तु अनुदिनम् । भवतु अमीषां भवनिवासः अशक्तिमूलः, न पुनरासक्तिमूलः । भवस्थितस्यापि मम भवो वृद्धिं माऽऽतनोतु इति जागृतिमादधानाश्च ते भवभयमयाशयाः भगवदाज्ञाविज्ञानेन भवप्रज्ञाविगानेन च शाश्वतानन्दकन्दपरमपदमभि संवाहयन्तु निजमिति शुभमभिलषितम् । प्रशमरतिविजयस्य । माघकृष्ण त्रयोदशी शनिवासरः । २०५२ । सूर्यपुरी ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy