SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११३ तत्त्वार्थाधिगमसूत्रम् संवेगो वैराग्यं च भवति । तत्र संवेगो नाम संसारभीरुत्वमारम्भपरिग्रहेषु दोषदर्शनादरतिः धर्मे बहुमानो धार्मिकेषु च । धर्मश्रवणे धार्मिकदर्शने च मनःप्रसाद उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धेति ॥ वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषूपाधिष्वनभिष्वङ्ग इति ॥७॥ अत्राह । 'उक्तं भवता हिंसादिभ्यो विरतिव्रतमिति । तत्र का हिंसा नामेति । अत्रोच्यते । प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥ ८ ॥ प्रमत्तो यः कायवाङ्मनोयोगैः प्राणव्यपरोपणं करोति सा हिंसा । हिंसा मारणं प्राणातिपातः प्राणवधः देहान्तरसंक्रामणं प्राणव्यपरोपणमित्यनर्थान्तरम् ॥८॥ अत्राह । अथानृतं किमिति । अत्रोच्यते ___ असदभिधानमनृतम् ॥ ९ ॥ असदिति सद्भावप्रतिषेधोऽर्थान्तरं गर्दा च ॥ तत्र सद्भावप्रतिषेधो नाम सद्भूतनिह्नवोऽभूतोद्भावनं च । तद्यथा-नास्त्यात्मा नास्ति परलोक इत्यादि भूतनिह्नवः । श्या माकतण्डुलमात्रोऽयमात्मा, अङ्गुष्ठपर्वमात्रोऽयमात्मा, आदित्यवर्णो निःष्क्रिय इत्येवमाद्यमभूतोद्भावनम् ॥ अर्थान्तरं यो गां ब्रवीत्यश्वमश्वं च गौरिति ॥ गहेंति हिंसापारुष्यपैशुन्यादियुक्तं वचः सत्यमपि गर्हितमनृतमेव भवतीति ॥९॥ अत्राह । अथ स्तेयं किमिति । अत्रोच्यते अदत्तादानं स्तेयम् ॥ १० ॥ स्तेयबुद्ध्या परैरदत्तस्य परिगृहीतस्य तृणादेर्द्रव्यजातस्याऽऽदानस्तेयम्॥१०॥ अत्राह । अथाब्रह्म किमिति । अत्रोच्यते - - मैथुनमब्रह्म ॥ ११ ॥ स्त्रीपुंसयोमिथुनभावो मिथुनकर्म वा मैथुनं तदब्रह्म ॥ ११ ॥ अत्राह । अथ परिग्रहः क इति । अत्रोच्यते - मूर्छा परिग्रहः ॥ १२ ॥ चेतनावत्स्वचेतनेषु च बाह्याभ्यन्तरेषु द्रव्येषु मूर्छा परिग्रहः । इच्छा प्रार्थना 1. अ. ७ सू. १ । २ श्यामाकः - कुधान्यविशेषः ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy