SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०४ ६-१० मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भः । एवं वाङ्मनोयोगाभ्यामपि वक्तव्यम् । तथा समारम्भारम्भौ । तदेवं जीवाधिकरणं समासेनैकशः षट्त्रिंशद्विकल्पं भवति । त्रिविधमप्यष्टोत्तरशतविकल्पं भवतीति ।। संरम्भः सकषायः परितापनया भवेत्समारम्भः । आरम्भः प्राणिवधस्त्रिविधो योगस्ततो ज्ञेयः ॥ ९॥ निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्दित्रिभेदाः परम् ॥ १० ॥ परमिति सत्रक्रमप्रामाण्यादजीवाधिकरणमाह । तत्समासतश्चतुर्विधम् । तद्यथा-निर्वर्तना निक्षेपः संयोगो निसर्ग इति ॥ तत्र निर्वर्तनाधिकरणं द्विविधम् । मूलगुणनिर्वर्तनाधिकरणमुत्तरगुणनिर्वर्तनाधिकरणं च । तत्र मूलगुणनिर्वर्तनाः पञ्च शरीराणि, वाङ्मनःप्राणापानाश्च । उत्तरगुणनिर्वर्तना काष्ठपुस्तचित्रकर्मादीनि ॥ निक्षेपाधिकरणं चतुर्विधम् । तद्यथा- अप्रत्यवेक्षितनिक्षेपाधिकरणं 'दुष्प्रमार्जितनिक्षेपाधिकरणं सह सानिक्षेपाधिकरणमना भोगनिक्षेपाधिकरणमिति । संयोगाधिकरणं द्विविधम् । भक्तपानसंयोजनाधिकरणमुपकरणसंयोजनाधिकरणं च ॥ निसर्गाधिकरणं त्रिविधम् । 'कायनिसर्गाधिकरणं वाङ्निसर्गाधिकरणं १°मनोनिसर्गाधिकरणमिति ॥ १०॥ १. औदारिकशरीरप्रायोग्यवर्गणाद्रव्यैर्निर्मापितं यदीदारिकसंस्थानं तप्रथमसमयादारभ्य मूलगुणनिर्वर्तनाधिकरणं भवति ।। २. तादृशस्यौदारिकस्याङ्गोपाङ्गावयवसंस्थानादिकं तु मूलापेक्षयोत्तरगुणनिर्वर्तनाधिकरणं भवति । ३. अप्रत्यवेक्षितभूप्रदेशे निक्षेप्य वस्त्रादिवस्तुनो निक्षेपकरणरूपत्वमप्रत्यवेक्षितनिक्षेपाधि... करणस्य लक्षणम् । ४. दुष्प्रमार्जितभूप्रदेशे निक्षेप्य वस्त्रादिवस्तुनो दुष्प्रमार्जितरजोहरणेनाप्रमार्जितेन वा निक्षेपकरणरूपत्वं दुष्प्रमार्जितनिक्षेपाधिकरणस्य लक्षणम् । ५. अप्रमार्जिते दुष्प्रमार्जिते देशे निक्षेप्य वस्तुनो निक्षेपकरणरुपत्वं देशनिक्षेपाधिकरणस्य लक्षणम्। ६. अनुपयोगपूर्वकप्रत्यवेक्षिते सुप्रमार्जिते वा देशे निक्षेप्य वस्तुनो निक्षेपकरणरूपत्वमनाभोगिकनिक्षेपाधिकरणस्य लक्षणम् । ७. संयोजनं मिश्रीकरणं । तच्च संयोजनाधिकरणं द्विविधम् । ८. निसर्ग उत्सर्गः त्याग इत्यर्थः । शस्त्रपाटनाग्निजलप्रवेशोद्वन्धनविषप्रयोगादिभिः शरीरस्य ___त्यागकरणरूपत्वं कायनिसर्गाधिकरणस्य लक्षणम् । ९. भाषात्वेनापादितवचनवर्गणापुद्गलानामुपदेशादिभिस्त्यागकरणरूपत्वं वानिसर्गाधिकरणस्य लक्षणम् । १०. मनस्त्वेन परिणतमनोवर्गणाद्रव्याणां चिन्तनादिद्वारा त्यागकरणरूपत्वं मनोनिसर्गाधिकरणस्य लक्षणम् ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy