SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ५-३२ तद्यथा-'द्रव्यास्तिकं मातृकापदास्तिकमुत्पन्नास्तिकं पर्यायास्तिकमिति । एषामर्थपदानि द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् । असन्नाम नास्त्येव द्रव्यास्तिकस्य ॥ मातृकापदास्तिकस्यापि, मातृकापदं वा मातृकापदे वा मातृकापदानि वा सत् । अमातृकापदं वा अमातृकापदे वा अमातृकापदानि वा असत् ।। उत्पन्नास्तिकस्य, उत्पन्नं वोत्पन्ने वोत्पन्नानि वा सत् । अनुत्पन्नं वानुत्पन्ने वानुत्पन्नानि वाऽसत् ॥ अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वा । पर्यायास्तिकस्य सद्भावपर्याये वा सद्भावपर्याययोर्वा सद्भावपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् । असद्भावपर्याये वा असद्भावपर्याययोर्वा असद्भावपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वाऽसत् । तदुभयपर्याये वा तदुभयपर्याययोर्वा तदुभयपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा न वाच्यं सदित्यसदिति वा । देशादेशेन' विकल्पयितव्यमिति ॥ ___ अत्राह । उक्तं भवता संघातभेदेभ्यः स्कन्धा उत्पद्यन्त इति । तत्किं संयोगमात्रादेव संघातो भवति । आहोस्विदस्ति कश्चिद्विशेष इति । अत्रोच्यते । सति संयोगे बद्धस्य संघातो भवतीति ।। ३१ ॥ अत्राह । अथ कथं बन्धो भवतीति । अत्रोच्यते - स्निग्धरूक्षत्वाद्वन्धः ॥ ३२ ॥ स्निग्धरूक्षयोः पुद्गलयोः "स्पृष्टयोर्बन्धो भवतीति ॥ ३२ ॥ अत्राह । किमेष 'एकान्त इति । अत्रोच्यते १. द्रव्यास्तिकं मातृकापदास्तिकं च द्रव्यनयः । उत्पन्नास्तिकं पर्यायास्तिकं च पर्यायनयः अस्ति मतिरस्येत्यास्तिकम् । द्रव्ये आस्तिकम् । द्रव्यास्तिकम् । एवं मातृकापदास्तिकादिष्वपि योज्यम् । तत्र संग्रहाभिप्रायानुसारि द्रव्यास्तिकम् । व्यवहारनयानुसारि मातृकापदास्तिकम् । २. सकलस्य वस्तुनो बुद्धिच्छेदविभक्तोऽवयवो देशस्तस्मिन् देशे आदेशो देशादेशस्तेन देशादेशेन विकल्पनीयं व्याख्येयम् । ३. अ. ५ सू. २६. ४. एकत्वपरिणतिभाजः । ५. संयुक्तयोः । ६. नियमः ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy