SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९४ ५-२९ ('उत्पादव्ययौ ध्रौव्यं च सतो लक्षणम् । यदिह मनुष्यत्वादिना' पर्यायेण व्ययत, आत्मनो देवत्वादिना पर्यायेणोत्पादः, एकान्तध्रौव्ये आत्मनितत्तथैकस्वभावतयावस्थाभेदानुपपत्तेः६ । एवं च संसारापवर्गभेदाभावः । कल्पितत्वेऽस्य निःस्वभावतयानुपलब्धिप्रसङ्गात् । सस्वभावत्वे त्वेकान्तध्रौव्याभावस्तस्यैव तथाभवनादिति तत्तत्स्वभावतया विरोधाभावात्तथोपलब्धिसिद्धेः । तद्भ्रान्तत्वे प्रमाणाभावः । योगिज्ञानप्रमाणाभ्युपगमे त्वभ्रान्तस्तदवस्थाभेदः । इत्थं चैतत्, अन्यथा न मनुष्यादेर्देवत्वादीति । एवं यमादिपालनानर्थक्यम् । एवं च सति "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" "शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" इति आगमवचनं वचनमात्रम् । एवमेकान्ताध्रौव्येऽपि सर्वथा तदभावापत्तेः तत्त्वतोऽहेतुकत्वमेवावस्थान्तरमिति सर्वथा तद्भावाभावप्रसङ्गः अहेतुकत्वाविशेषात् । न हेतुस्वभावतयोर्ध्वं तद्भावः, तत्स्वभावतयैकान्तेन ध्रौव्यसिद्धेः । यदाहि हेतोरेवासौ स्वभावो यत्तदनन्तरं तद्भावस्तदा ध्रुवोऽन्वयस्तस्यैव तथा भवनात् । एवं च तुलोनामावनामवद्धेतुफलयोयुगपद्व्ययोत्पादसिद्धिरन्यथा तत्तद्व्यतिरिक्तेतरविकल्पाभ्यामयोगात् । तन्न मनुष्यादेर्देवत्वमित्यायातं मार्गवैफल्यमागमस्येति । एवं सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाग् सम्यग्मार्ग सम्यगार्जवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिरिति वाग्वैयर्थ्यम् । एवं घटव्ययवत्या मृदः कपालोत्पादभावात् उत्पादव्ययध्रौव्ययुक्तं सदिति । एकान्तध्रौव्ये तत्तथैकस्वभावतयावस्थाभेदानुपपत्तेः, समानं पूर्वेण । एवमेतद्व्यवहारतः तथा १. एतदादिसूत्रसमाप्तिपर्यन्तं भाष्यं हारिभद्रवृत्ती व्याख्यातं, न सिद्धसेनवृत्तौ । २. आदिशब्दात्तिर्यगादिपरिग्रहः । ३. जीवस्य । ४. आदिशब्दाचारकादिपरिग्रहः । ५. सर्वथाप्रच्युतानुत्पन्नस्थिरैकरूपे । ६. देवादिभेदानुपपत्तेरित्यर्थः । ७. पातं. योगसूत्रम् २-३५. ८. पातं. सू. २-३२. ९. अर्थशून्यमित्यर्थः ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy